Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 423
________________ अलंकारकौस्तुभः। ४१५ उदाहरणं यथा'सत्पुष्करद्योतितरङ्गशोभिन्यभेदमारब्धमृदङ्गवाये । उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥ अत्राद्यविशेषणे शब्दमात्रसाम्यं श्लेषः । द्वितीयेऽर्थसाम्यमुपमा । तदुभयमप्येकस्मिन् इवपदेऽनुप्रविष्टम् । नाट्यगृहवापीपयसोरुपमायामिवशब्देन तयोः साधारणधर्मतया बोधनादिति । अत्र दीक्षिताः-नैतद्युक्तम् । सत्पुष्करेत्यत्र श्लेषसत्त्वेऽपि तद्बोध्यार्थद्वयस्य भेदेऽप्यभेदरूपातिशयोक्तिः महिमा ऐक्यविवक्षया तत्रापि धर्मसाम्यस्य प्रतिपादितत्वेन शब्दसाम्यस्य तत्रानभिमतत्वात् । अन्यथा 'अहो रागवती संध्या-' इत्यादौ विशेषणसाम्याभावेन श्लिष्टविशेषणकसमासोक्त्यनुपपत्तेः । अस्तु वा शब्दसाम्यमिव प्रतिपाद्यम्, तथाप्युपमावाचकत्वात्तस्य श्लेषवाचकत्वमनुपपन्नमेव । तस्माद्यत्रैकस्मिन्नेवार्थे प्रतिपाद्यमानेऽलंकारद्वयलक्षणसंभवादलंकारप्रतीतिस्तत्रैकानुवाचकप्रवेशरूपसंकरः । यथा'विधुकरपरिरम्भादात्मनिस्यन्दपूर्णैः शशिदृषदुपक्लुप्तैरालवालैस्तरूणाम् । विफलितजलसेकप्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ अत्र समृद्धिमद्वस्तुवर्णनादुदात्तम् । असंबन्धे संबन्धकल्पनाच्चातिशयोक्तिः । न चोदात्तस्य यथोक्तातिशयोक्तिव्याप्यत्वेन विविक्तविषयाभावात्कथमेतदिति वाच्यम् । दिव्यलोकसंपद्वर्णने उदात्तस्यातिशयोक्तिव्यभिचारेण, शौर्यदारिद्यादिवर्णने चातिशयोक्तेरुदात्तव्यभिचारेण, प्रकृते द्वयोः समावेशात् । न चानयोरङ्गाङ्गिभावः एकस्यान्यानुपजीवकत्वात् । नापि समप्राधान्यम्, उदात्तप्रतिपादकशक्तेरेवातिशयोक्तिप्रत्यायनात् । नापि संदेहः । एककोटेरपरकोटिप्रतिक्षेपकत्वाभावादित्याहुः ॥ तदसत् । खखजन्यतावच्छेदकीभूतवैजात्यावच्छिन्नचमत्कारनिष्ठकार्यताप्रतियोगिककारण

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436