Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
४१४
काव्यमाला |
पमितसमासोऽयमिति उपमाया मानमस्ति । तथापि सौभाग्यपदस्य शोभार्थपरतायां निर्णीतायामेव तथा । यदि तु हास एव द्युतिरिति पदेन प्रभा लक्ष्यते, तदा तु वक्रमेव शशीति रूपकमपि संभवत्येव चन्द्रे प्रभायाः संभवादिति न रूपककोटिबाधकत्वं निश्चितम् । एवम् 'वन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते' इत्यत्राप्यपरत्वस्य शीतांशुविशेषणत्वात् । अन्यघटादिपदे च भेदानुयोगिवृत्तिधर्मावच्छिन्नप्रतियोगिकभेदस्यैव भानात् । शीतांश्वन्तरेत्यस्यान्यशीतांशुसापेक्षतया वक्रमेवेति रूपकानुगुणत्वम् । तथापि इन्दुतुल्ये मुखे विद्यमानेऽन्येन मुख्येनेन्दुना किमिति कथंचिदर्थपर्यवसानान्नोपमाबाधकम् । अतो न कोटिव्यतिरेकि निर्णयजनकमेव बाधकमिति बोध्यम् ॥
संकरान्तरमाह
एकपदाच्छन्दार्थालंकृत्योरवगतावन्यः ।
यत्राखण्डपद एव शब्दार्थालंकारयोर्भेदेन स्फुटा प्रतिपत्तिः तत्रैकाश्र - यानुप्रवेशलक्षणः संकरः । स च शब्दालंकारे शब्दस्यालंकार्यत्वरूपेण, अर्थालंकारे च स्वबोधवाचकरूपेणाश्रयत्वेनेत्युभयोः सामानाधिकरण्यादिति भावः ॥ यत्र पदभङ्गं कृत्वा भिन्नावच्छेदेनालंकारद्वयप्रतीतिस्तत्र संसृष्टिरेवेत्यत उक्तम् — एकपदादिति ।
यथा
‘स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकपालमुखावतार
बद्धान्धकारमधुपावलि संचुकोच ॥'
अत्र रूपकानुप्रासावेकपदानुप्रविष्टौ स्पष्टौ ।
प्राञ्चस्तु – अर्थालंकारयोरप्युक्तरूपसंकरमङ्गीकुर्वन्ति । वाचकानुप्रवेशेत्यत्र वाचकत्व[स्य] वाच्यनिरूपितत्वाद्वाच्ययोरेवानुप्रवेशः प्रतिभाति ।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436