Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
४१२
काव्यमाला। . यत्तु काव्यप्रकाशकृता एतदिति मुखनिर्देशे चन्द्रमुखयोः प्रकृतत्वे अप्रकृतत्व एव वा प्रसीदतीत्यस्योभयान्वयित्वे तुल्ययोगिता । एकस्य प्रकृतत्वे एकस्य चाप्रकृतत्वेऽपि दीपकं चेति अलंकारद्वयमपि संदेहविषयत्वेन लिखितम् ॥ तत्र यद्यपि समुच्चयो नावगम्यते चकारादेस्तबोधकस्याभावात् । तथापि 'गामश्वं पुरुषं पशुम्' इत्यादाविव अध्याहृतचकारेण समुच्चयप्रतीतिरिति तद्व्याख्यातारः । संदेहश्चात्र कवितात्पर्यविषयकोटिक इति चेत्, तन्न । अलंकारानभिज्ञकविकल्पितकाव्ये 'अत्र क. वेस्तात्पर्यमत्र वा' इत्येव[मा]कारकसंदेहसंभवात् । तस्मात् ‘इदमत्र चमत्कारप्रयोजकमिदं वा' इवेति संदेहः । स च सर्वत्र विशिष्ट एव । प्रथमपक्षे संशयानुपपत्तिः, कोटिद्वयविरोधावगाहन एव ज्ञानस्य संशयात् अत्र चालंकारान्तरेण सहान्यालंकारविरोधासिद्धिरेव यत्रोभयसत्त्वेऽपि उपपत्तेः । इति चेत् । - उच्यते-तत्तदलंकारजन्यतावच्छेदकीभूतानां चमत्कारनिष्ठवैजात्यानां परस्परविरुद्धत्वेन तजनकतावच्छेदकावच्छिन्नानामपि विरोधप्रतीतिसंभवात् ॥ तथा च स्वजन्यतावच्छेदकावच्छिन्नचमत्कारभेदव्यक्तिजनकत्वे संसृष्टिः, चित्ररूपवद्वैजात्यान्तरावच्छिन्नचमत्कारजनकत्वे संकरः । अगृह्यमाणवैजात्यावच्छिन्नचमत्कारजनकत्वे संदेह इति निष्कर्षः ॥
यत्रैककोटिनिश्चायकलिङ्गसद्भावस्तत्र तु न संदेहः । यथा'आनन्दमन्थरपुरंदरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु ते विजयाय मञ्जु
मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥' यथा वा
'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।' अत्र पादाम्बुजमित्यत्र उपमितसमासे च उपमारूपकयोः संभवात्सं

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436