Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः। - ४११ तिपादयितुमशक्यत्वात् । एवमन्येषामन्योन्यसापेक्षत्वादङ्गाङ्गिभावरूपः संकर इति दिक् ॥
संकरान्तरमाह. साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे ।
यत्र कस्यचिदलंकारस्य साधकम्, अन्यस्य च बाधकं नास्ति तत्रान्यतमनिर्णयाभावात्संकरः ।
यथा__'देवाअत्तम्मि फले किं कीरउ एत्ति उण भणामो।
किकेल्लिपल्लवाणं ण पल्लवा होन्ति सारिच्छा ॥' अत्र प्रकृष्टगुणनायकप्रतीतिः प्रकृताशोकवृत्तान्तेनेति समासोक्तिः । किं वा अप्रस्तुताशोकवृत्तान्तेन प्रस्तुतपुरुषप्रतीत्या अप्रस्तुतप्रशंसेत्युभयसंभवात्संदेहः । प्रकरणादेनिर्वाहकस्याभावात् । अत एव
'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥' इत्यत्र मृदुकठिनवृत्तान्तस्य प्रस्तुतत्वेन समासोक्तिबाधात् । अप्रस्तुतप्रशंसानिर्णयान्न संदेहः ॥ अनेकालंकारः कोटिकसंशयो यथा
'नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति ।
अधुनापि निरुद्धाशमपि जीर्णमिदं तमः ॥' अत्र हि कामोद्दीपककालस्य भङ्गयन्तरेण प्रतिपादनाकि पर्यायोक्तम्, किं वा इन्दुबिम्बेन मुखस्य निगीर्णत्वादतिशयोक्तिः, आहोखित् एतदिति मुखं निर्दिश्य तस्येन्दुबिम्बेन सहाभेदवर्णनाद्रूपकम् । यद्वा प्रदोषवर्णने चन्द्रबिम्बस्य प्रकृतत्वेन साम्यविशेषणसाम्यान्मुखप्रतीत्या समासोक्तिः, उत मुखवर्णने प्रकृते चन्द्रस्याप्रकृतस्यैव वर्णनादप्रस्तुतप्रशंसेति संदेहः । १. 'दैवायत्ते फले किं क्रियतामियत्पुनर्भणामः ।
___ कङ्केल्लिपल्लवानां न पल्लवा भवन्ति सदृशाः ॥' [गाथा० ३।७९]

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436