Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 417
________________ अलंकारकौस्तुभः । केलीमन्दिरदेहली मुखशशिज्योत्स्नाभिरालिम्पती हस्तन्यस्तकपोलपाणि निभृतं कल्याणि कं ध्यायसि ॥' अत्रोपमारूपकयोः । बहूनां यथा 'एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै__ गर्जद्भिः सतडिद्वलाकशबलैर्मेधैः सशल्यं मनः । तत्कि प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः प्रावृप्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ।' अत्र गजेन्द्रमलिनेत्युपमा । यद्यपि तडिद्वलाकाभिः शबलेत्यत्र तृतीयासमासो न संभवति । बलाकापदे ह्रखत्वानुपपत्तेः, तथापि तडिद्वलाकाभिः सहिताः सतडिद्वलाका इति समासे उपसर्जनह्रखं कृत्वा 'सतडिहलाकाश्च ते शबलाश्च' इति कर्मधारयो वक्तव्यः । सतडिद्वलाकत्वविशेषणं हेतुगर्भम् । तद्गुणसंबन्धेन शाबल्यसिद्धेः । एवं चात्र तद्गुणः । न च चित्ररूपमध्येऽत्र मेघगुणस्य श्यामत्वस्याप्यनुप्रवेशात्वगुणत्यागेनास्तीति वाच्यम् । चित्ररूपस्यातिरिक्तत्ववादिनां मते तस्य सुवचत्वात् । वध्यपटह इति रूपकम् । न च प्रोषितभर्तृ इत्यत्र बहुव्रीहित्वात् 'नवृतश्च' इति सूत्रेण नित्यस्य कपो दुर्वारत्वमिति वाच्यम् । पूर्वपदे कर्मधारयं कृत्वा तत्संबन्धिनीनां स्त्रीणां वध्यपटह इति मध्यमपदलोपिसमासाश्रयणेन कथंचित्समाधानात् । क्षारं क्षते प्रक्षिपन् इति निदर्शना । उद्विमेऽपि मनसि तदुद्वेगजनकव्यापाराः क्षते क्षारप्रक्षेप इत्युपमापर्यवसानात् । तस्मादत्रैषां निरपेक्षाणामेव सत्त्वात्संसृष्टिः । एकमपेक्ष्यान्यस्य प्रादुर्भावे तु संकरः प्रोक्तः । यत्रैकमलंकारमुपजीव्य अलंकारान्तरं स्वरूपमासादयति तत्राङ्गाङ्गिभावरूपः संकरः। १. 'तद्गुणालंकारः' ख.

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436