Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 416
________________ ४०८ काव्यमाला। निष्ठवक्तृत्वगुणस्य स्वाच्छन्द्यविरोधित्वेन दोषत्वं तद्भिन्नपक्षिनिष्ठवक्तृत्वाभावदोषस्य च स्वाच्छन्द्यानुकूलत्वेन गुणत्वं कल्पितम् । न चात्र व्याजस्तुतिरिति वाच्यम् । शुकस्य निन्दाव्याजेन प्रशंसायां तदन्येषां स्तुतिव्याजेन निन्दायां वा प्रकृते तात्पर्यविरहस्य स्पष्टत्वात् । तत्राप्युपकारहेतुत्वेनाभिमताद्वक्तृत्वादुक्तस्वाच्छन्द्यप्रतिबन्धकरूपविरुद्धकार्यस्यानर्थहेतुत्वाभिमता कार्योत्पत्तिश्चाभिधानात् व्याघात एवान्तर्भावात् । एवमुदाहरणान्तरेऽपि योज्यम् । अत्र वदन्ति–व्यतिरेक एवात्रालंकारः । 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' इति प्राचीनोदाहरणे जयिनीरित्यनेन तस्यैव प्रकाशनात् । न च व्याघातोऽप्यत्र व्यतिरेकोत्थापकत्वेन स्थित इति वाच्यम् । तथाप्यलंकारान्तरत्वसिद्धेः विविक्तविषयाभावादिति दिक् ॥ तदसत् । सादृश्यविवक्षायामेव व्यतिरेक इत्यसकृयवस्थापितत्वात् अत्र च धर्मान्तरेणापि शिवनायिकयोः सादृश्यानभिमतेः स्पष्टत्वात् । न चैवमपि पूर्वोक्तेषु ॥ इति व्याघातः। एवं शुद्धालंकारा यथातथं निरूपिताः । यत्रैषां संवलितानां चमत्कारविशेषाधायकत्वं तत्राप्यलंकारत्वमनुभवानुरोधान्मन्तव्यम् । तत्र च द्वौ प्रकारौ-संसृष्टिः, संकरश्च । लोकेऽपि हि मणिहारस्वर्णालंकारादिनापि शोभा उभयघटितेनाङ्गदादिनापि तद्वदत्रापि । तत्राद्यप्रकारमाह संसृष्टिस्तु परस्परमनपेक्ष्यस्थितिरनेकस्य । अनेकपदेन द्वयोर्बहूनां चोपादानम् । संकरवारणाय अनपेक्ष्येति । तत्र द्वयोर्यथा 'गुम्फन्ती नयनोदबिन्दुनिवहैर्मुक्ताभिरामस्रजो ... निश्वासग्लपितारुणाधरतले निस्पन्दतामागता। ६सालमा

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436