Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 414
________________ ४०६ काव्यमाला । यथा वा 'विरोधिवर्णाभरणाश्मभासां मल्लाजिकौतूहलमीक्षमाणाम् । स्मरस्व चापभ्रमचालिते नु भ्रुवौ विलासाद्वलिते वहन्तीम् ॥' अत्र प्रथमार्धे विजातीयरूपवदलंकाररत्नकान्तीनां मल्लयुद्धतया वर्णनातेषां परस्परगुणाननुविधानं व्यङ्ग्यम् । तद्गुणे एकस्योत्कर्षविवक्षा ह तूभयोः साम्यविवक्षेति फलविशेषः । अत्राक्षिपन्ति - सत्यपि परगुणग्रहणहेतौ तद्रूपकार्याभावाद्विशेषोक्तितो नातिरिच्यत एवायम् । न चात्र कार्यकारणभावो न विवक्षितः, किं तु धर्म्यन्तरसंनिधानेऽपि तद्गुणग्रहणाभाव एवेति वाच्यम् । अपिशब्देन विरोधस्मरणात् । विरोधस्य च कार्यकारणभावविवक्षाया एव समुल्लासात् । अन्यथा कारणाभावेऽपि कार्यानुत्पत्तौ विरोधानुपपत्तिप्रसङ्गात् इति ॥ अत्रोच्यते - कारणसत्त्वे कार्यानुपपत्तिसाम्येऽपि यत्राभावप्रतियोगितावच्छेदकस्य तद्धर्मावच्छिन्नकारणतावच्छेदकप्रतियोगि कार्यतावच्छेदकत्वं विवक्षितं तत्र विशेषोक्तिः । यत्र त्वभावप्रतियोगिनस्तन्निष्ठकारणतानिरूपितकार्यताशालित्वमात्रं तत्रातद्गुण इति विभागात् ॥ इत्यतद्गुणः । व्याघातं निरूपयति कार्यान्तर हेतुतयान्येनाभिमताद्विरुद्धकार्य चेत् । क्रियते परेण तस्माद्व्याघातोऽयं समाख्यातः ॥ १ ॥ अभिमतकार्यनिरूपितकारणतावत्त्वेनान्यविवक्षितस्यार्थस्य यत्र तद्विरुद्धार्थनिष्ठ कार्यतानिरूपितकारणताश्रयत्वं केनचित्प्रतिपाद्यते स व्याघातः । व्याहन्यते अन्याभिमतकार्यकारणभावोऽनेनेति व्युत्पत्तेः । यथा 'जितस्तवास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः । तवेति कृत्वा यदि तज्जितं मया न मोघसंकल्पचराः किलामराः ॥' अत्र भैम्या नलसंबन्धित्वबुद्धिः कामचन्द्रयो भैमीवधहेतुत्वेनाभिमता

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436