Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 413
________________ अलंकारकौस्तुभः। ४०५ यात्र हरिन्मणीनां गुणतया प्रतीतिः' इति । न चानुगुणालंकारान्तरनिरासार्थत्वादुक्तविवक्षायामस्यालंकारत्वं दुर्वारम् , अत्र हरिन्मणिनिष्ठहरितत्ववृत्तिजातेतिरोधेयसूर्याश्वहरितत्वगुणनिष्ठात्यन्ताभावप्रतियोगित्वादिति वाच्यम् । यनिष्ठतिरोधेयत्वप्रतियोगिकतिरोधे(धा)यकताशालित्वमभिमतं तन्निष्ठात्यन्ताभावप्रतियोगित्वस्यात्रापि सत्त्वात् । अत्र हि रक्तत्वनिष्ठतिरोधेयत्वनिरूपितमेव हरिन्मणिनिष्ठहरितत्वस्य तिरोधायकत्वं विवक्षितम्, रक्तत्वनिष्ठाभावप्रतियोगित्वं च हरित्तत्ववृत्तिजातेरस्त्येवेति । 'भूशक्रस्य-' इत्यादिकं तूदाहरणमप्युत्तरितमेव । धर्म्यन्तरगुणसंबन्धप्रयुक्तस्वगुणप्राप्तेरेव पूर्वरूपत्वात् । 'हर-' इत्याधुदाहरणात्तथैवार्थप्रतीतेः लक्षणाया यद्यपि तादृशार्थस्यैव प्रत्ययात् तत्र च प्रतापसंबन्धिरूपसंबन्धप्रयुक्तस्य सुवर्णादेः स्वकीयरूपलाभस्याविवक्षितत्वात् । तद्रूपतिरोधायकद्रव्यान्तरसंबन्धापनायकत्वेनैवात्र वह्नः पुरस्कारात् ॥ इति तद्गुणः । अतद्गुणं निरूपयति अन्यगुणासंबन्धे प्रकृतस्यातद्गुणः प्रोक्तः । स्वनिष्ठगुणस्यान्यगुणनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतानाश्रयत्वेऽतद्गुणः । यथा'णजइ विहीसण तुहं सोम्यसहावपरिवडिअं विण्णाणम् । दिह्रिविसेहि व अमअं उअहिस्स णिसाअरेहिं वि अविद्दविअम् ॥' यथा वा'ध्माता भालतलानलैः कवलिता कण्ठस्थहालाहलै रालीढाथ जटाटवी वलयितैराशीविषाणां गणैः । कीर्णा भस्मभिराहतास्थिपटलैर्विद्धा जटाग्रैरपि स्वीयामुज्झति माधुरी हरशिरोरत्नं किमिन्दोः कला ॥' १. 'ज्ञायते विभीषण तव सौम्यस्वभावपरिवर्धितं विज्ञानम् । दृष्टिविषैरिवामृतमुदधेनिशाचरैरप्यविद्रावितम् ॥' [सेतु० ४।६०]

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436