Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
४०४
काव्यमाला।
तेन यच्चन्द्रालोके
- 'प्राक्सिद्धि(द)स्वगुणोत्कर्षोऽनुगुणः परसंनिधेः । . नीलोत्पलानि दधते कटाक्षरतिनीलताम् ॥' अनुगुणाख्यमलंकारान्तरमुक्तम्, तन्निराकृतं भवति । तत्राप्युत्पलीयनीलगुण एवान्तर्भावसंभवात् । तिरोधेयगुणनिष्ठात्यन्ताभावप्रतियोगिगुणत्वसाक्षायाप्यजात्यवच्छिन्नत्वविवक्षयैवालंकारान्तरत्वेनानुगुणस्य तैलिखितत्वात्तथा विवक्षायां तु प्रयोजनाभावेनैक्यमेव स्वीकार्यमिति युक्तम् । न च त्वदुक्तविवक्षायां तद्गुणोदाहरणेषु लक्षणानुपपत्तिः,
'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्तः ।' इत्यादौ तिरोधेयसूर्यरथ्याश्वीयहरितत्वनिष्ठप्रतियोगिन्या अरुणीयरक्तत्वनिष्ठजातेर्गुणत्वव्याप्यत्वाभावादिति वाच्यम् । तत्र व्याप्यपदस्य भेदाभेदसाधारणव्याप्यतापरत्वेन गुणत्वव्याप्यं यद्गुणत्वं तद्व्याप्यतायाः सत्त्वेन दोषानवकाशात् । न चैवं गुणत्वव्याप्यं यद्गुणत्वं तद्व्याप्यताया गुणत्वेऽपि सत्त्वात्तस्य तिरोधेयगुणनिष्ठात्यन्ताभावप्रतियोगितानुपपत्तिरिति वाच्यम् । द्वितीयव्याप्यपदे भेदघटिताया एव व्याप्यताया विवक्षितत्वेन कस्यापि दोषस्यासंस्पर्शादिति दिक् ॥ एतेन. 'पुनः स्वगुणसंप्राप्तिर्विज्ञेया पूर्वरूपता ।
हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ यथा वा. 'भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमा
देतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भिः कृतकं कृतोदकतया राज्ञां यशःपारदै___ रस्य स्वर्णगिरिप्रतापदहनैः स्वर्णः पुनर्निर्मितः ॥' इति पूर्वरूपाख्यमलंका[रान्त]रमपास्तम् । तद्गुणद्वयरूपत्वात् । अत एव 'विभिन्नवाणी-' इत्यादिकं काव्यप्रकाशे तद्गुणोदाहरणत्वाल्लिखितम् । उक्तं च काव्यप्रदीपे–'तद्गुणद्वयं रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्ष

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436