Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 410
________________ ४०२ काव्यमाला | आद्ये आधेयस्य प्रतियोगिन आधाररूपस्य निरूपकव्यभिचारात् । द्वितीयेऽप्येकवृत्तिरेवापरत्र वृत्त्या तयभिचारस्याविशेषात् । तृतीयेऽपि कारणरूपप्रतियोगिनः कार्यरूपनिरूपक व्यभिचारसत्त्वात् । न चैवं विभावनाविशेषोक्त्योरतिप्रसक्तं तत्रापि कार्यकारणव्यभिचारात् इति वाच्यम्, किंचिन्निरूपकसाहचर्यस्यापि विवक्षितत्वात् । अत्रैकत्राधेयस्याधारान्तरसंबन्धेऽप्याधारसाहचर्यं विवक्षितम् । एवं कारणस्य स्वप्रतियोगिक कार्यसाहच - र्यमपि तथा । विभावनायां तु कारणान्तराधीना यद्यपि कार्योत्पत्तिस्तथापि तस्याविवक्षितत्वान्न व्यभिचारः । कारणाभावेऽपि कार्योत्पत्तिप्रयोज्यचमत्कारस्य तत्रानुमतत्वात् । विशेषोक्तावपि कारणस्य कार्यव्यभिचारित्वे कार्यान्तरसाहचर्यानभिमतत्वात् । सत्यपि कारणे कार्यानुत्पादमात्रचमत्कारस्यैव तत्राभिमतत्वात् इत्यलमतिप्रसङ्गेन ॥ इति विशेषः । तगुणं निरूपयति परकीयगुणतिरोहितगुणस्य भानं तु तद्गुणः प्रोक्तः । बलवद्वस्त्वन्तरगुणप्रतिबद्धस्वगुणज्ञातस्य वस्तुनो भानं यत्र स तद्गुणालंकारः ॥ मीलितातिव्याप्तिवारणाय वस्तुनो भानमिति । सामान्यातिव्याप्तिवारणाय ज्ञानस्येत्यत्तम् । तत्र तु तदीयगुणस्यापि ग्रहान्न दोषः ॥ न च भ्रान्तिमदतिव्याप्तिः । धर्मितावच्छेदकातिरिक्तप्रकारतांशे विषयतावैयधिकरण्यस्य विवक्षितत्वात् । अत्र हि विषयवृत्तिमेव धर्मितावच्छेदकीकृत्य धर्म्यन्तरगुणप्रकारकं ज्ञानम् । तत्र तु धर्मितावच्छेदकतया विशेषधर्मो न भासत इत्येव विशेषात् । एवं च धर्मितावच्छेदकत्वेन प्रकारता तदन्यप्रकारतांशे यत्र स तद्गुणः, अन्यत्र भ्रान्तिमानलंकार इति फलितम् । केचित्तु – भ्रान्तिमति स्मर्यमाणारोपो न त्वनुभूयमानारोप इत्येव विशेष इत्याहु: । यथा ―d

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436