Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
पर्वतकवधजनकारम्भादेव तद्बधजन्यायशः परिहारः । अन्यस्यायश:संबन्धः । अर्धराज्यभागिवधेन साभ्युदयश्चेति बहवोऽर्थाः साधिताः ।
यथा वा
'भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः । दृष्टा ततः पूरयतीव मेनकाने काप्सरः प्रेक्षणकौतुकानि ॥ अ भैमीदर्शनेनैव बहुप्सरसां दर्शनसिद्धिरुक्ता ॥
यथा वा मम
४०१
'उदञ्चद्वक्षोजामतिसुरभिनिश्वासपवनां
नितान्तं रम्यास्यां सुतनु विधिना त्वां विदधता । सुमेरुः सृष्टोऽन्यो व्यरचि स परो मालयमरुद्विजातीयो भूमौ समजनि सुधादीधितिरपि ॥' ननु – प्रथमतृतीयभेदौ विभावनायामेवान्तर्भावमर्हतः । आधाररूपे कार्यकारणभावोपस्थितेरुक्तत्वात् । साध्यत्वाख्यसंबन्धेन तद्विषयकप्रवृत्त्यभावेऽपि तत्कार्योक्तेश्चेति चैत्रेण ( चेत्, न यत्र ?) कारणाभावेऽपि कायत्पत्तिर्वर्ण्यते सैव विभावना । अत्र तु स्थितिरेव वर्ण्यत इति विशेषः ॥ किं च विभावनायां कारणतावच्छेदकानवच्छिन्नात्यन्ताभाव उच्यते, इह तु तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकोऽभावो ध्वंससाधारणः ॥ एवं न द्वितीयस्यावकाशः । तत्र स्वनिष्ठकार्यत्वप्रतियोगिककारणाभावादवच्छिन्नकार्योत्पत्तिः, अत्र त्वन्यनिष्ठकार्यत्वप्रतियोगिककारणावच्छिन्नकार्योत्पत्तिचमत्कारहेतुरिति वैषम्यात्कारणतावच्छेदकावच्छिन्नाभावानभिधानात् ॥ ननु त्रितयसाधारण्यानुगतलक्षणानुभावात्कथमेषां विशेषभेदत्वम् अन्यतमत्वेन संग्रहे त्वलंकारान्तरभेदताया अपि वक्तुं शक्यत्वात् नियामकाभावात् । अत एवात्र पृथगलंकारत्वमेव कल्पयितुमुचितमिति चेत्, न । स्वनिरूपितव्यभिचारिप्रतियोगिकत्वस्यानुगतधर्मस्य वक्तुं शक्यत्वात् । आधाराधेयानां कार्यकारणानां च परस्परनिरूप्यनिरूपकभावसत्त्वात् ।
१. 'तत्र' ख.
५१

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436