Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 415
________________ अलंकारकौस्तुभः । भैम्यास्तु तस्या एव नलाप्राप्तिहेतुत्वं साधितम् इति व्याघातः । तदिच्छाविषयीभूतभैम्यनिष्टविरोधिभैमीष्टत्वस्वरूपो विरोधः । यथा वा 'अदोषतामेव सतां विवृण्वते द्विषां मृषा दोषकणाधिरोपणाः । न जातु सत्ये सति दूषणे भवेदलीकमाधातुमवद्यमुद्यमः ॥' अत्र दोषारोपस्य दोषवत्ताप्रतीतिं प्रति हेतुत्वमारोपकस्य विवक्षितम् । तस्यैव दोषत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वप्रतीतिहेतुत्वमुपन्यस्तम् । यत्किंचिद्दोषवत्ताप्रतीतिजननस्य सर्वदोषाभावधीहेतुत्वाचमत्कारः ॥ अत्रात्यन्ताभावस्य प्रतियोगिना समानदेशत्व एकसंबन्धावच्छिन्नासमानदेशत्व - रूपो विरोधः । - ४०७ 'कर्णोत्पलान्नयनमाप गतिच्युतस्ते तस्मिन्निमीलति मुखं सखि यो द्विरेफः । तं येन वारयितुमद्य समुद्यतासि तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥' अत्र भ्रमरवारणहेतुत्वेनाभिमतस्य हस्तस्य तत्संबन्धहेतुत्वमुक्तम् । इच्छाविषयीभूताभावप्रतियोगित्वं विरोधः । 'अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनानामापारेभ्यश्चतुर्णी चटुलतिमि कुलक्षोभितान्तर्जलानाम् । मालेव म्लानपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः सा मय्येव स्खलन्ती कथयति विनयालंकृतिं ते प्रभुत्वम् ॥' अत्र चाणक्ये चन्द्रगुप्तेनाशक्तिव्यञ्जकतया स्वाज्ञाभङ्गो दोषत्वेन प्रागुक्तः । स एवात्र चाणक्येन विनयव्यञ्जकतया गुणत्वेनोक्तः ॥ एतेन लेशो निरस्तः । एवं हि स परैरुक्त: 'लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।' ' अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥' अत्र चिरप्रोषितपुत्रदर्शनोत्सुकस्य पितुरप्रस्तुतप्रशंसारूपे वाक्ये शुक

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436