Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः । देहः । तत्र रूपकसत्त्वे उत्तरपदार्थस्याम्बुजस्य प्राधान्यप्रसङ्गेन तत्र च 'मञ्जीरादिविशेषणानामन्वयानुपपत्तिरूपबाधकसत्त्वादुपमैवेति निर्णयः ॥
'यस्यातिशब्दविषयं चरणारविन्द
__ मुत्तंसयन्त्यमितभक्ति""वराननाः ॥' इत्यादौ तूत्तंसनकार्यस्यारविन्दनिरूपितत्वमेवेति । एवं राजनारायणम्-' इत्यत्र उपमायां राजप्राधान्ये लक्ष्मीसमागमानौचित्यापातात् राज्ञि तदुपपादकनारायणतादात्म्यसिद्ध्यर्थं रूपकमेवेति ।
अत्र केचित्-ईदृशस्थले पूर्वोत्तरपदवाच्यतावच्छेदकानवच्छिन्नयोरेवाभेदान्वयः, न तूत्तरपदार्थस्य सादृश्ये लक्षणा उक्तव्यवस्थानुपपत्तेः । पादाम्बुजमित्यत्र रूपकखीकारेऽपि अम्बुजसदृशत्वेनैव प्रतीत्या पूर्वपदार्थप्राधान्यस्य संभवेन बाधकाभावात् । गुणजात्योर्जातिप्राधान्यस्य नीलोत्पलादौ व्यवस्थापितत्वात् । अस्मन्मते त्वम्बुजत्वादिनैव बोधान्नानुपपत्तिः । एवं राजनारायणम्-' इत्यत्र नारायणसदृशत्वेन बोधे राज्ञः प्राधान्याविशेषणरूपस्वीकारेऽप्यनुपपत्तितादवस्थ्यापत्तिरापाद्येति ।
अन्ये त्वाहुः-रूपके उपमानतावच्छेदकरूपेणैव तत्सदृशप्रत्ययखीकारान्नारायणत्वेनैव रूपेण बोधादुक्तानुपपत्तिविरहः । पादाम्बुजमित्यत्र रूपकस्वीकारे तु अम्बुजसदृशस्याम्बुजत्वेनैव प्रतीत्या तत्र मञ्जीराद्यसंभवात् रूपकबाधकत्वस्याप्युपपत्तेः । तत्पदलक्षणाज्ञानस्य वाच्यतावच्छेदकप्रकारकलक्ष्यविशेष्यकशाब्दबोध[क]त्वस्यैव कार्यतावच्छेदकत्वकल्पनादिति । एतद्विचारस्तु रूपकप्रकरण एव पल्लवित इति दिक् ॥
केचित्तु–एककोटिसाधकमात्रं भवति न वितरकोटिबाधकमपि । यथा-'सौभाग्यं वितनोति वक्रशशिनो ज्योत्स्नैव हासद्युतिः' इति । अत्र हि यद्यपि ज्योत्स्नायाश्चन्द्र एव सत्त्वे तदभावात् मुखवृत्तिहासद्युतिनिष्ठोपमेयतानिरूपितोपमानशालिज्योत्स्नाया मुखनिष्ठोपमेयतानिरूपितोपमानताशालिचन्द्रवृत्तितया तत्रैव साधारणधर्मत्वसंभवात् वकं शशीवेत्यु

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436