Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
तावच्छेदकधर्मवत्तया प्रकृतेऽप्येककोटेस्तदन्यकोटिविरोधित्वेन संदेहस्योपपत्तेः । एतद्विलक्षणायाः प्रतिक्षेपकताया अलंकारमात्रेऽपि दुर्वचत्वात् । ___प्राचां त्वयमाशयः-उपमाप्रकरणे यादृशधर्मोक्तौ श्लेषेण अनुगामित्वेन च तदुक्तिव्यवहारसादृश्यमेव, भेदमाश्रित्य सत्पुष्करेत्युदाहरणम्, तदुपादानं चेवशब्देन संभवत्येव, तस्य साधारणधर्मवाचकताया अप्यङ्गीकारात् ॥ एतेन शब्दसाम्यस्य इवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचित्वस्यैव प्राप्त्या श्लेषवाचकत्वाभावादित्यपास्तम् । श्लेषत्वेन रूपेण तस्यैव शब्दवाच्यत्वाभावेऽपि श्लेषवाच्यार्थद्वयस्य साधारणधर्मत्वेन इवपदबोद्धव्यत्वावश्यकत्वात् तावतैव प्रकृतोदाहरणोपपत्तेरिति दिक् ॥ अधुना प्रसङ्गेन रसालंकारान्निरूपयति
रसभावतदाभासे रसवत्प्रेयऊर्जखी। .
शमे तु समाहितमुदयेऽन्योऽप्यस्य शबलत्वे ॥१॥ रसो नाम लौकिकैर्नायिकादिभिः कारणैः कटाक्षादिभिश्च कार्यैरप्युपमानवतां सामाजिकानामात्मनि संस्कारवर्तमानरूपत्वेन काव्यादौ नायिकादीनां संबन्धिविशेषीयत्वाभावोभयाभासराहित्येन नायिकात्वादिप्रतीतिबलादुबोधितो विषयो वैचित्र्यविशेषेण चमत्कारकारीत्यादिरिति । तत्स्वरूपमन्यत्र स्पष्टम् ।
स यत्र प्राधान्येनावतिष्ठते तत्र ध्वनिरेवेत्यपि ।
तथा । यत्र तु रसोऽन्यस्मिन्नर्थेऽङ्गत्वं भजति तत्रान्योपकारकत्वाद्रसवदलंकारो भवति । भावस्य तथात्वे प्रेयोऽलंकारः । तच्छब्देन रसभावयोः परामर्षः । रसाभासभावाभासयोस्तथात्वे ऊर्जस्विनामालंकारः । आभासत्वं चानौचित्यप्रवृत्तत्वाबोध्यम् । भावशान्तेरन्याङ्गत्वे समाहिता. लंकारः । एवं भावोदयभावशबलत्वयोरलंकारत्वं विशेषसंज्ञानभिधानात्स्व. संज्ञयैव ज्ञेयम् ॥ तत्र रसस्यान्याङ्गत्वे यथा'अत्रैः कल्पितमङ्गलप्रतिसराः स्त्रीरक्तरक्तोत्पल
व्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः ।

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436