Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 395
________________ अलंकारकौस्तुभः । यथा मम रुक्मिणीपरिणये'सह दयितया यान्तं व्योमारुणारज""स्थितं जितदितिसुतं त्वामालोक्य स्मरन्ति नभश्चराः ससुतसुहृदं हत्वा मन्दोदरीदयितं बला जनकसुतया साधैं रामं समाश्रितपुष्पकम् ॥ अत्र श्रीकृष्णालोकनेन रामस्मरणम् ॥ क्वचिदेकोद्बोधकेनान्येषामनेकविषयकं स्मरणं यथा'वैजभअं धरणिहरा आइवराहभुअपेलणाई वसुमई । समअं च्चिअ पम्हटुं संभरिओ महणसंभमं च समुद्दो ॥ अत्र श्रीरामबाणप्रहारेण पर्वतभूमिसमुद्राणां वज्रवराहभुजमथनाघटितानां स्मरणमुपन्यस्तम् ॥ इति स्मरणम् । भ्रान्तिमन्तं निरूपयति तदभाववति मतिस्तत्यकारिका भ्रान्तिमान्भवति । चन्द्रत्वाद्यभाववति मुखादौ चन्द्रत्वादिप्रकारकं ज्ञानं यत्र भवति स भ्रान्तिमान् । चन्द्रत्वमुखत्वोभयप्रकारकं ज्ञानमप्यंशे लक्ष्यमेवेत्यदोषः । यथा-- 'ओसहिअजणो पइणा सलाहमाणेण एचिरं हसिओ। चन्दो त्ति तुज्झ वअणो विइण्णकुसुमञ्जलिविलिक्खो ॥ अत्र मुखे चन्द्रप्रकारकज्ञानोक्तेान्तिमान् । शुक्तिविशेष्यकरजतत्वादिप्रकारकज्ञानं तु वैचित्र्यविरहान्नालंकारः। १. 'वज्रभयं धरणिधरा आदिवराहभुजप्रेरणानि वसुमती । समकमेव प्रस्मृतं संस्मृतवान्मथनसंभ्रमं च समुद्रः ॥' (सेतु० ॥४०) २. 'आवसथिकजनः पत्या श्लाघमानेनातिचिदं हसितः।। चन्द्र इति तव वदने वितीर्णकुसुमाञ्जलिविलक्षः ॥' (गाथा० ४।४६)

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436