Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 406
________________ ३९८ काव्यमाला। कोऽर्थः किं तस्य ज्ञानविषयतैव नास्ति, किं वा स्ववृत्तिधर्मप्रकारकज्ञानविषयता नास्तीति । नाद्यः। स हि विषयाभावात्संनिकर्षाभावाद्वा प्रतिबन्धकसत्वाद्वा । नाद्यद्वितीयौ । त्वयाप्यनभ्युपगमात् । अन्यथा 'सहजारुणे-' इत्यादेरपि मीलितत्वापत्तेः । मुखावच्छेदेनासंनिकर्षे पद्ममात्रविशेष्यकपद्मत्वप्रकारकज्ञानस्यापि तत्त्वापत्तेश्च । न तृतीयः । यावकमात्रविशेष्यकज्ञानप्रतिबन्धकस्य तदाप्यभावात् ॥ न द्वितीयः । सामान्यसाधारण्यात् । तत्रापि मुखादेर्मुखत्वप्रकारकज्ञानाविषयत्वात् । चरणत्वप्रकारकबोधविषयतायाश्च यावकेऽपि बाधकाभावात् ॥ एतेन 'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । __ अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥' अत्र सामान्यवारणायानध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणमिति प्रत्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणं तद्भिन्नत्वेनाग्रहणं सामान्यम् । मीलिते तु निगूह्यमानवस्तु न प्रत्यक्षविषय इति नातिव्याप्तिरिति रसगङ्गाधरोक्तमपि परास्तम् । खवृत्तिधर्मप्रकारकत्वेन वस्तुनि उभयत्राप्यनवभासादन्यथा नोभयत्रापि भानात् ॥ किं च—'स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम्-' इत्युक्त्वा 'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ इत्युदाहरणमयुक्तम् । द्रव्यादिविषयकरूपचाक्षुषस्याप्रसिद्ध्या वस्त्वन्तरग्रहणं विना विजातीयरूपादिस्वरूपाणां तदीयलिङ्गानामपि चाक्षुषानुपपत्तेः । तदर्थ चाक्षुषविषयतायास्त्वयैवाभ्युपगमादिति चेत् , उच्यतेयत्र तिरोधायकधर्मविशेष्यको बोधस्तत्र मीलितम् । यत्र तादृशधर्माश्रयको बोधस्तत्र सामान्यमिति विभागः । तथा हि । ‘अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436