Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 405
________________ इत्यस्य अलंकारकौस्तुभः । 'क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः । ' 'पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्' । इत्यस्य च केन विशेषेण आधे मीलितत्वम्, द्वितीये सामान्यत्वं वर्ण्यते ॥ ३९७ ननु तद्व्यक्तिभेदभानाभ्यामेवेत्युक्तं भेदकमिति चेत् ॥ मैवम् । आद्येऽपि तत्तद्व्यक्ति भेदभानसंभवात् । तथा हि । एकधर्मानवच्छिन्नत्वेऽप्येकधर्मावच्छिन्नतया व्यक्तिभेदभानं सामान्यमिति त्वन्मते पर्यवसितार्थः । अन्यथा पद्मेष्वेव पद्माकारप्रतीतेरपि तथात्वप्रसङ्गात् । तच्च क्षौमवत्य इत्यत्राप्यविशिष्टम् । चन्द्रिकात्वाभाववत्यामभिसारिकायां चन्द्रिकात्वेन देशान्तरीयचन्द्रिकाव्यक्तिप्रतियोगिकभेदवत्त्वेन ज्ञानस्य सत्त्वात् । एवं च यथामुखस्य पद्मान्तरभिन्नत्वेन भानादत्र सामान्यमभ्युपैषि तथा अभिसारिकायामियं चन्द्रिका चन्द्रिकान्तरभिन्नेति भिन्नव्यक्तिकतया भानमस्त्येवेति तत्रापि कथं सामान्यमङ्गीकुर्याः । पद्मत्वेन भासमानायां मुखव्यक्तावेव व्यक्त्यन्तरतया भानं न तु चन्द्रिकात्वेन भासमानायामभिसारिकायामिति ब्रह्मणापि दुर्घटत्वात् ॥ यत्तु मतम् — वस्तुद्वयस्य लक्षणद्वयसाम्यात्केनचिंद्बलीयसा स्वरूपतिरोधाने मीलितम्, स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधाने सामान्यम् — इति । तदप्यसत् । 'मिहिसि तस्स पासं सुन्दरि मा तुरअ वड्डउ मिअङ्को । दुद्धे दुद्धं चिअ चन्दिआइ को पेच्छइ मुहं दे ||' इत्यादौ स्वरूपप्रतीतेरभावात् । 'मलयजरस - ' इत्यादावपि नियमेन स्वरूपप्रतीतेरभावात् 'एकात्म्यं वध्यते योगात्तत्सामान्यम्' इति प्रकाशलक्षणविसंवादाच्च ॥ किं च मीलिते व्यक्तिरेव न प्रतीयते इत्यस्य १. 'गमिष्यसि तस्य पार्श्व सुन्दरि मा त्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥ [ गाथा ० ७ ७ ]

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436