________________
इत्यस्य
अलंकारकौस्तुभः ।
'क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः । '
'पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्' ।
इत्यस्य च केन विशेषेण आधे मीलितत्वम्, द्वितीये सामान्यत्वं वर्ण्यते ॥
३९७
ननु तद्व्यक्तिभेदभानाभ्यामेवेत्युक्तं भेदकमिति चेत् ॥ मैवम् । आद्येऽपि तत्तद्व्यक्ति भेदभानसंभवात् । तथा हि । एकधर्मानवच्छिन्नत्वेऽप्येकधर्मावच्छिन्नतया व्यक्तिभेदभानं सामान्यमिति त्वन्मते पर्यवसितार्थः । अन्यथा पद्मेष्वेव पद्माकारप्रतीतेरपि तथात्वप्रसङ्गात् । तच्च क्षौमवत्य इत्यत्राप्यविशिष्टम् । चन्द्रिकात्वाभाववत्यामभिसारिकायां चन्द्रिकात्वेन देशान्तरीयचन्द्रिकाव्यक्तिप्रतियोगिकभेदवत्त्वेन ज्ञानस्य सत्त्वात् । एवं च यथामुखस्य पद्मान्तरभिन्नत्वेन भानादत्र सामान्यमभ्युपैषि तथा अभिसारिकायामियं चन्द्रिका चन्द्रिकान्तरभिन्नेति भिन्नव्यक्तिकतया भानमस्त्येवेति तत्रापि कथं सामान्यमङ्गीकुर्याः । पद्मत्वेन भासमानायां मुखव्यक्तावेव व्यक्त्यन्तरतया भानं न तु चन्द्रिकात्वेन भासमानायामभिसारिकायामिति ब्रह्मणापि दुर्घटत्वात् ॥
यत्तु मतम् — वस्तुद्वयस्य लक्षणद्वयसाम्यात्केनचिंद्बलीयसा स्वरूपतिरोधाने मीलितम्, स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधाने सामान्यम् — इति । तदप्यसत् ।
'मिहिसि तस्स पासं सुन्दरि मा तुरअ वड्डउ मिअङ्को । दुद्धे दुद्धं चिअ चन्दिआइ को पेच्छइ मुहं दे ||'
इत्यादौ स्वरूपप्रतीतेरभावात् । 'मलयजरस - ' इत्यादावपि नियमेन स्वरूपप्रतीतेरभावात् 'एकात्म्यं वध्यते योगात्तत्सामान्यम्' इति प्रकाशलक्षणविसंवादाच्च ॥ किं च मीलिते व्यक्तिरेव न प्रतीयते इत्यस्य
१. 'गमिष्यसि तस्य पार्श्व सुन्दरि मा त्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥ [ गाथा ० ७ ७ ]