________________
३९६
काव्यमाला ।
इत्यत्र तु पद्मव्यक्तीनां मुखव्यक्तीनां च प्रत्येकं प्रतीतिरस्त्येव । परं तु इदं मुखम् इदं पद्मम् इति विविच्य निर्णयो नास्ति, तस्माद्व्यक्तिभेदतिरोधाने मीलितम् । भासमानेऽपि व्यक्तिभेदे व्यावर्तकधर्मानवभासे सामान्यमित्याहुः ॥ तच्चिन्त्यम् । व्यक्तिभेदप्रतीतिरित्यस्य किं वस्तुतो भिन्नाया व्यक्तेर्यथा कथंचित्प्रतीतिरभिमता, उत व्यक्त्यन्तरनिष्ठाभावप्रतियोगित्वधर्मेण ॥ नाद्यः । मीलितसाधारण्यात् । न द्वितीयः । सामान्येऽप्यभावात् । व्यावर्तकधर्मानवभासे व्यक्तिभेदप्रतीतेर्दुर्घटत्वात् ।
अथात्र उक्तधर्मावच्छिन्नप्रतियोगिताको भेदो न विवक्षितः । किंतु तत्तद्व्यक्तिप्रतियोगिक एव । स च सामान्येऽप्यस्ति । तत्र मुखत्वपद्मत्वादिरूपेणानिर्णयेऽपि 'इयं व्यक्तिरेतद्व्यक्तिभिन्ना' इति ज्ञानस्य निर्बाधत्वात् । मीलिते तु यावकव्यक्तौ चरणव्यक्तिप्रतियोगिकभेदस्याप्यभानेन तदभावेन दोषाभावादिति चेत् ॥ सत्यम् ।
'मलयजरसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधानि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' इत्यादौ तदभावात् । अत्र नायिकाव्यक्तिभिन्नत्वेन भानाभावात् ॥ एवम्—
'क्रीडानटस्य प्रलयान्धकारैः कण्ठे निपीते तव नीलकण्ठ । पृथक्कबन्धः पृथगुत्तमाङ्गं नृत्यन्मया चैक्ष्यत कालरात्रिः (१) ॥' इत्यत्र भगवत्कण्ठप्रतीतेः पृथगप्रतीतिरवधेया ॥ न च तन्मते - 'मल्लिकाधारवाहिन्यः सर्वाङ्गीणार्द्रचन्दनाः ।
-
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥'
इत्यस्य मीलितोदाहरणत्वेन लिखनादिष्टापत्तिरिति वाच्यम् । सामान्योदाहरणतया लिखद्भिः काव्यप्रकाशादिभिर्विरोधप्रसङ्गात् ॥ किं च यद्येतावदेव तस्य भेदकमङ्गीक्रियते तर्हि
१. ' योगिधर्मवत्त्वेन' ख.