________________
अलंकारकौस्तुभः ।
विद्युल्लता यदि पथि प्रतिरोधिनी स्यादप्रावृतैव कनकद्रवगौरि गच्छेः ॥'
इत्यादौ व्यङ्ग्यसामान्यम् । आवरणाभावे विद्युदभावे तव ज्ञानं भविष्यतीति प्रतीतेः ॥
ननु भ्रान्तिमदपेक्षया नेदमतिरिक्तम् । अत्रापि यावत्स्वविशेष्यावृत्ति - धर्मप्रकारकत्वसत्त्वात् । तथा हि । इयं कस्तूरी इति ज्ञानविशेष्यमत्र कस्तूरी भृङ्गश्च । तत्र यद्यप्येकविशेष्ये कस्तूर्यं तद्वृत्तिकस्तूरीत्वप्रकारकं ज्ञानं न भ्रान्तिस्तथापि भृङ्गरूपविशेष्यावृत्ति यत्कस्तूरीत्वं तत्प्रकारकत्वस्यापि सत्त्वेन भ्रान्तित्वानपायात् । यथा शुक्तिरजतयोः इदं रजतम् इति ज्ञानं रजतांशे प्रभारूपमपि शुक्त्यंशे भ्रान्तिरिति चेत् ॥ सत्यम् । अस्तुनामास्य भ्रान्तित्वं तथापि तस्या नालंकारत्वम् । तदभाववन्मात्रविशेष्यकतद्धर्मावच्छिन्नप्रकारताकज्ञानस्यैवालंकारत्वेन स्वीकारात् । किं च । चमत्कारकारणतावच्छेदकरूपस्यैवालंकारविभाजकोपाधित्वम् । इह च भ्रान्तित्वावच्छिन्नकारणतानिरूपितकार्यताको न चमत्कारो विवक्षितः । किं तु अत्यन्तसाधर्म्येण एकधर्मिणोऽन्यधर्मिप्रतियोगिकभेदवत्तयानुपस्थितिजन्य एवेति विभाजकोपाधिभेदात् ।
केचित्तु – भ्रान्तिमति स्मर्यमाणारोपोऽभिमतः, अत्र त्वनुभूयमानारो' पणमेवेति सांकर्यमित्याहुः ||
अथ तथापि मीलितालंकारादस्य भेदकं दुर्वचम् |
यत्तु दीक्षिताः -- मीलितालंकारे एकेनापरस्याभिन्नखरूपानवभासरूपं मीलनं क्रियते । सामान्यालंकारे तु भिन्नखरूपावभासेऽपि व्यावर्तकविशेषो नोपलभ्यत इति भेदः ।
३९९
'रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ।'
इत्यत्र हि चरणाद्यपेक्षया वस्त्वन्तरत्वेनागन्तुकं यावकादि न भासते इति तन्मीलितम् ॥
'पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ।'
१. 'रोप वे' ख.