________________
३९४
काव्यमाला।
त्यक्तेति। अत्र खगुणसाजात्यं रूपवत्त्वव्याप्यधर्मेण शुक्लत्वादिना बोध्यम् । अन्यथा गुणत्वादिधर्मभिन्नरूपाणां साजात्यं नैव स्यात् । समानस्य भावः सामान्यमिति व्युत्पत्त्या उभयोरेकधर्मवत्ताप्रतिपादनादित्यर्थः ॥ यथा'सितारविन्दप्रचयेषु लीनाः संसक्तफेनेषु च सैकतेषु ।
कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रमुखैर्निनादैः ॥' ___ अत्र कुसुमसैकते हंसानामेकगुणतया अभेदेन भानम् । न च शब्देन हंसानां पृथक्प्रतीतिरस्त्येवेति वाच्यम् । तत्पूर्वकाले अभेदभानस्य निधितया तदभिप्रायेणैवोदाहृतत्वात् । उत्तरकालीनभेदज्ञानेन पूर्वकालीनाभेदज्ञानबाधाभावात् । अत एव
'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गाः सहेलं यदि नापतिष्यन्को वेदयिष्यन्नवचम्पकानि ॥' इत्युदाहृतम् ॥ __ यत्तु-नैतद्युक्तम्, उत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेर्न चमत्कारकत्वम्, किंतूत्तरप्रतीतेरेवेति तयैव व्यपदेशस्य युक्तत्वात्। अन्यथा व्यतिरेकेऽप्युपमाया एवापत्तेरिति ॥ तच्चिन्त्यम् । भेदप्रतीतेवर्णनीयोत्कर्षानाधायकत्वेन तथानापत्तेः तिरस्कारातिरस्कारयोश्चाप्रयोजकत्वात् । अन्यथा विरोधाभासस्याप्युच्छेदापत्तेः । विरोधस्य तत्राप्यप्रविष्टनात् ॥ .. . __ एतेन मीलितसामान्योभयप्रतिद्वन्द्विभूतमुन्मीलितविशेषात्मकं दीक्षितालंकारद्वयं प्रत्याख्यातम् । वर्णनीयोत्कर्षानाधायकत्वेन प्रथमवृत्तिकाभ्यां मीलितसामान्याभ्यामेवान्यथासिद्धेः । भेदज्ञानाभावविशिष्टं यथा'सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् । पणिता न जनारवैरवैदपि गुजन्तमलिं मलीमसम् ॥' 'गन्तुं यदि व्यवसितासि घनान्धकारे
चेलाञ्चलेन तनुमावृणु मुग्धशीले ।