________________
३९८
काव्यमाला। कोऽर्थः किं तस्य ज्ञानविषयतैव नास्ति, किं वा स्ववृत्तिधर्मप्रकारकज्ञानविषयता नास्तीति । नाद्यः। स हि विषयाभावात्संनिकर्षाभावाद्वा प्रतिबन्धकसत्वाद्वा । नाद्यद्वितीयौ । त्वयाप्यनभ्युपगमात् । अन्यथा 'सहजारुणे-' इत्यादेरपि मीलितत्वापत्तेः । मुखावच्छेदेनासंनिकर्षे पद्ममात्रविशेष्यकपद्मत्वप्रकारकज्ञानस्यापि तत्त्वापत्तेश्च । न तृतीयः । यावकमात्रविशेष्यकज्ञानप्रतिबन्धकस्य तदाप्यभावात् ॥ न द्वितीयः । सामान्यसाधारण्यात् । तत्रापि मुखादेर्मुखत्वप्रकारकज्ञानाविषयत्वात् । चरणत्वप्रकारकबोधविषयतायाश्च यावकेऽपि बाधकाभावात् ॥ एतेन
'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । __ अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥' अत्र सामान्यवारणायानध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणमिति प्रत्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणं तद्भिन्नत्वेनाग्रहणं सामान्यम् । मीलिते तु निगूह्यमानवस्तु न प्रत्यक्षविषय इति नातिव्याप्तिरिति रसगङ्गाधरोक्तमपि परास्तम् । खवृत्तिधर्मप्रकारकत्वेन वस्तुनि उभयत्राप्यनवभासादन्यथा नोभयत्रापि भानात् ॥ किं च—'स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम्-' इत्युक्त्वा
'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ इत्युदाहरणमयुक्तम् । द्रव्यादिविषयकरूपचाक्षुषस्याप्रसिद्ध्या वस्त्वन्तरग्रहणं विना विजातीयरूपादिस्वरूपाणां तदीयलिङ्गानामपि चाक्षुषानुपपत्तेः । तदर्थ चाक्षुषविषयतायास्त्वयैवाभ्युपगमादिति चेत् , उच्यतेयत्र तिरोधायकधर्मविशेष्यको बोधस्तत्र मीलितम् । यत्र तादृशधर्माश्रयको बोधस्तत्र सामान्यमिति विभागः । तथा हि ।
‘अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।