________________
अलंकारकौस्तुभः ।
इति स्फुरितमङ्गके मृगदृशां खतो लीलया तदत्र न मनोदयः (?) कृतपदोप (?) संलक्ष्यते ||'
इत्यादौ 'इदं तारल्यादिकं स्वभावजन्यम्' इति बोधो न त्वयं स्वभाव इत्यादिरूपः । ‘मलयजरस -' इत्यादौ तु इयं चन्द्रिकेत्यादि [ रीति ] गतिरोधायकधावल्यादिकरूपधर्माश्रयविशेष्यक एव बोधो न त्विदं धावल्यं चन्द्रिकीयमित्यादिरूपः । आश्रयत्वं चात्र कारणतारूपं ग्राह्यम् । अतस्तारल्यादीनां स्वभावानाश्रितत्वेऽपि न दोषः । बोधश्वात्र यन्निष्ठज्ञानविषयत्वाभावोऽन्यधर्मस्य प्रतिपाद्यस्तदात्र समवेतो विवक्षितस्तस्यैवालंकारताप्रयोजकचमत्काराधायकत्वात् । न तु प्रतिपादकशब्दजन्य इति उदाहृतेषु तथाविधबोधविरहेऽपि न क्षतिरिति कृतं पल्लवितेन ॥
इति सामान्यम् ।
विशेषं निरूपयति
स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ १ ॥ आधारपदस्य संबन्धिसापेक्षतया स्थितिराधेयस्य । सर्वथैवाधाराभावे कार्यस्यावस्थानासंभवाच्च । आधारपदं प्रसिद्धाधारपुरम् । तथा च । प्रसिद्धमाधारमन्तरेणाप्याधेयस्य सिद्धिर्यत्रोक्ता स एको विशेषः इति पर्यवस्यति ।
यथा
―
'रूअं अच्छी ठिअं फरिसो असु जम्पिअं कण्णे । हिअअं हिअए णिहिअं विओइअं किं त्थ देव्वेण ॥
३९९
अत्र नायिकानिष्ठरूपस्य नायिका आधारः प्रसिद्धः तत्समवायिकारणत्वात् । तां विनापि अक्ष्णोस्तदवस्थानमुक्तम् । तज्जन्योपनीतविषयत्वाभिप्रायेणेत्युपपत्तिः ।
१. ' रूपमक्ष्णोः स्थितं स्पर्शोऽङ्गेषु जल्पितं कर्णे ।
हृदयं हृदये निहितं वियोजित किमत्र दैवेन ॥ [ गाथा० २।३२]