________________
अलंकारकौस्तुभः । यथा मम रुक्मिणीपरिणये'सह दयितया यान्तं व्योमारुणारज""स्थितं
जितदितिसुतं त्वामालोक्य स्मरन्ति नभश्चराः ससुतसुहृदं हत्वा मन्दोदरीदयितं बला
जनकसुतया साधैं रामं समाश्रितपुष्पकम् ॥ अत्र श्रीकृष्णालोकनेन रामस्मरणम् ॥ क्वचिदेकोद्बोधकेनान्येषामनेकविषयकं स्मरणं यथा'वैजभअं धरणिहरा आइवराहभुअपेलणाई वसुमई ।
समअं च्चिअ पम्हटुं संभरिओ महणसंभमं च समुद्दो ॥ अत्र श्रीरामबाणप्रहारेण पर्वतभूमिसमुद्राणां वज्रवराहभुजमथनाघटितानां स्मरणमुपन्यस्तम् ॥
इति स्मरणम् ।
भ्रान्तिमन्तं निरूपयति
तदभाववति मतिस्तत्यकारिका भ्रान्तिमान्भवति । चन्द्रत्वाद्यभाववति मुखादौ चन्द्रत्वादिप्रकारकं ज्ञानं यत्र भवति स भ्रान्तिमान् । चन्द्रत्वमुखत्वोभयप्रकारकं ज्ञानमप्यंशे लक्ष्यमेवेत्यदोषः । यथा-- 'ओसहिअजणो पइणा सलाहमाणेण एचिरं हसिओ।
चन्दो त्ति तुज्झ वअणो विइण्णकुसुमञ्जलिविलिक्खो ॥ अत्र मुखे चन्द्रप्रकारकज्ञानोक्तेान्तिमान् । शुक्तिविशेष्यकरजतत्वादिप्रकारकज्ञानं तु वैचित्र्यविरहान्नालंकारः।
१. 'वज्रभयं धरणिधरा आदिवराहभुजप्रेरणानि वसुमती ।
समकमेव प्रस्मृतं संस्मृतवान्मथनसंभ्रमं च समुद्रः ॥' (सेतु० ॥४०) २. 'आवसथिकजनः पत्या श्लाघमानेनातिचिदं हसितः।।
चन्द्र इति तव वदने वितीर्णकुसुमाञ्जलिविलक्षः ॥' (गाथा० ४।४६)