________________
३८८
काव्यमाला |
यथा वा
'पुंसिआ कण्णाहरणेन्दनीलकिरणाहआ ससिमऊहा ।
माणिणिवअणम्मि सकज्जलंसुसङ्काइ दइएण ||' अत्र कर्णाभरणे नीलकिरणमिश्रितचन्द्रमयूखेषु सकज्जलाश्रुत्वज्ञानम् । क्वचित्कल्पितविशेष्यकं यथा
'वाणीकण्ठाभरण भवतो रुद्रचन्द्र क्षितीन्दो
कुन्दस्फीते यशसि नभसो बिम्बमालोकयन्त्यः । त्वद्वैरिण्यो विरहविकला वक्षसि न्यस्तकामा
वारं वारं नवकमलिनीपत्र बुद्ध्या विशन्ति || ' अत्राकाशस्य कल्पितत्वाभावेऽपि यशःप्रतिबिम्बितत्वरूपविशेषणांशस्य कल्पितत्वेन विशिष्टे कल्पितत्वव्यपदेशः ।
क्वचिदन्योन्यविशेष्यकभिन्नप्रकारको यथा—
'इसाउ ति भुजंगं महिसो जीहाइ लिहइ संतत्तो ।
महिसस्स कसणपत्थरसरो ति सप्पो पिअइ लालं ॥'
अत्र महिषस्य भुजंगे नदीस्रोतस्त्वज्ञानम् । भुजंगस्य महिषलालायां सरस्त्वज्ञानम्, तच्च महिषे कृष्णप्रस्तरत्वप्रकारक भ्रममूलमिति ज्ञातव्यम् । क्वचिदेकस्मिन्नेवानेकप्रकारको यथा मम
'मन्दाकिन्यां वलक्षोद्दलकमलधिये केलिवाप्यां मराल
भ्रान्त्यै शंभोः कपोले मुकुलितपुलके स्वीयवक्रभ्रमाय । हारा हीरबु भुजगपतिफले दीपरत्नोपलब्ध्यै
पार्वत्याः कल्पमाने प्रतिफलिततया पातु पीयूषरश्मिः ॥' अत्रैकस्मिंश्चन्द्रे पार्वत्यास्तत्तत्स्थानभेदेनानेकप्रकारकं ज्ञानम् । क्वचिदनेकेषामेकस्मिन्ननेकप्रकारको यथा ममैव —
१. 'प्रोञ्छिताः कर्णाभरणेन्द्रनील किरणाहताः शशिमयूखाः । मानिनीवदने सकज्जलाश्रशङ्कया दयितेन ॥' (गाथा० ४।२)
२. 'मदीस्रोत इति भुजंगं महिषो जिह्वया लेढि संतप्तः । महिषस्य कृष्णप्रस्तरसर इति सर्पः पिबति लालाम् ॥' (इति च्छाया