________________
अलंकारकौस्तुभः ।
'संकेत कुञ्जगमनं प्रति संचलन्तीमालोक्य सुभ्रु भवतीं गहनेऽन्धकारे । चाम्पेयकोरकमयी सगिति द्विरेफाः
३८९
सौदामिनीति कलयन्तु मुदं मयूराः ॥ एतेन – उक्तस्थले उल्लेखालंकारस्वीकारात् भ्रान्तिमत्येकत्वं विवक्षणीयम्—इत्यपास्तम् । तद्वृत्त्यनेकधर्मप्रकारकानेकसमवेतज्ञानस्थले तत्सत्त्वात् ।
'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम् ॥'
इत्यादिवत् । एतेन – 'चन्द्र इति चकोराः, कमलमिति चञ्चरीकाः, त्वन्मुखमभिधावन्ति' इत्युल्लेखः - इति चित्रमीमांसाप्यपास्ता ।
व्यङ्गयो यथा
-
‘कर्णोत्पलान्नयनमाप गतच्युता[त्]ते तस्मिन्निमीलति मुखं सखि यो द्विरेफः । तं येन वारयितुमुद्यममुद्यतासि
तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥' अत्रोत्तरोत्तरं नयनमुखादिसंयोगात् भृङ्गभ्रान्तिप्रतीतिः । अनेकेष्वनेकप्रकारकत्वं चात्र विशेषः । भिन्नकर्तृकोत्तरोत्तरभ्रान्तौ यथा चित्रमीमांसायाम् - 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै
स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै
रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' अत्रान्यनिष्ठभ्रान्तिजन्यस्वानर्थपरिहारार्थयत्नेनान्यस्य भ्रान्तिरिति रीतिः । अत्राद्ये मन्दारमञ्जरीप्रकारकनायिकाविशेष्यज्ञानम् । तज्जन्यं चुम्बनं तु स्तनकलशावच्छेदेनेत्यन्यदेतत् । द्वितीयेऽपि कीरदष्टा जाता इति दो (शे)षात् 'सविशेषणे हि - ' इति न्यायेन दंशस्यैव विधेयत्वासिद्धिः । तृतीयेऽपि