________________
३९०
काव्यमाला। नायिकाखरविशेष्यककोकिलकूजितप्रकारकभ्रान्तिजन्यनायिकाविशेष्यककोकिलप्रकारकज्ञानेन ताडनकर्मत्वम् ॥ ___ एतेन-स्तनयोर्मञ्जरीसादृश्यं न कविसमयप्रसिद्धम् , येन तन्मूला भ्रान्तिः स्यात् , दोषान्तरमूला तु सा नालंकारः । कलशसादृश्यावच्छिबस्तनानुमानेन मञ्जरीभ्रान्तौ 'मुखकमलं तव चन्द्रवत्प्रतीमः' इत्यादिवत्सादृश्यमूलकैकालंकारावच्छिन्ने तन्मूलकालंकारान्तरस्य चमत्कारकत्वाभावाच्च । कीरदष्टा इत्यत्र विधेयाविमर्षो जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वतादवस्थ्यम् । तृतीये पिकनिनदानां ताडनायोग्यत्वं तासु पिकबुद्धयुत्पादनद्वारा तथा प्रतीत्यभावः प्र(श)स्तः । 'चोरबुद्धया हतः साधुः-' इत्यादौ
'दन्तिबुद्धया हतः शूरैर्वराहो वनगोचरः' । इत्यादौ [च] बुद्धिविशेष्यवृत्तिहननकर्मत्वस्यैव बोधादित्यादिदूषणान्यलमकानि भवन्तीत्यवधेयम् । ___सादृश्यमूलकेत्यादिकं तु चिन्त्यम् । तथाहि । मुखकमल इत्यादौ रूपकखीकारे तत्र कमलविशेष्यकबोधस्यैव नियमात्तत्र चन्द्रसादृश्याप्रसिद्धिः । मनसा ज्ञाने तु तदुत्तरं यद्यपि मुखमपि विशेष्यतया भासत इत्युक्तम् , तथापि शब्दोपात्तसादृश्यान्वयानुपपत्तिरेव । मालोपमायाः सर्वसंमतत्वात् । दृश्यते च
'कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी
मभिनवकरिदन्तच्छेदकान्तः कपोलः ।' इत्यादौ उपमालंकारावच्छिन्नेऽपि कपोले सादृश्यमूलकनिदर्शनालंकारसमावेशः चमत्कारश्चेत्यादिकम्(ति दिक्) ॥
इति भ्रान्तिमान् । प्रतीपं निरूपयति
उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् । उपमानकार्यस्योपमयैव निर्वाहाद्यत्रोपमानवैयोक्तिः उपमानस्योपमेय