Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 396
________________ ३८८ काव्यमाला | यथा वा 'पुंसिआ कण्णाहरणेन्दनीलकिरणाहआ ससिमऊहा । माणिणिवअणम्मि सकज्जलंसुसङ्काइ दइएण ||' अत्र कर्णाभरणे नीलकिरणमिश्रितचन्द्रमयूखेषु सकज्जलाश्रुत्वज्ञानम् । क्वचित्कल्पितविशेष्यकं यथा 'वाणीकण्ठाभरण भवतो रुद्रचन्द्र क्षितीन्दो कुन्दस्फीते यशसि नभसो बिम्बमालोकयन्त्यः । त्वद्वैरिण्यो विरहविकला वक्षसि न्यस्तकामा वारं वारं नवकमलिनीपत्र बुद्ध्या विशन्ति || ' अत्राकाशस्य कल्पितत्वाभावेऽपि यशःप्रतिबिम्बितत्वरूपविशेषणांशस्य कल्पितत्वेन विशिष्टे कल्पितत्वव्यपदेशः । क्वचिदन्योन्यविशेष्यकभिन्नप्रकारको यथा— 'इसाउ ति भुजंगं महिसो जीहाइ लिहइ संतत्तो । महिसस्स कसणपत्थरसरो ति सप्पो पिअइ लालं ॥' अत्र महिषस्य भुजंगे नदीस्रोतस्त्वज्ञानम् । भुजंगस्य महिषलालायां सरस्त्वज्ञानम्, तच्च महिषे कृष्णप्रस्तरत्वप्रकारक भ्रममूलमिति ज्ञातव्यम् । क्वचिदेकस्मिन्नेवानेकप्रकारको यथा मम 'मन्दाकिन्यां वलक्षोद्दलकमलधिये केलिवाप्यां मराल भ्रान्त्यै शंभोः कपोले मुकुलितपुलके स्वीयवक्रभ्रमाय । हारा हीरबु भुजगपतिफले दीपरत्नोपलब्ध्यै पार्वत्याः कल्पमाने प्रतिफलिततया पातु पीयूषरश्मिः ॥' अत्रैकस्मिंश्चन्द्रे पार्वत्यास्तत्तत्स्थानभेदेनानेकप्रकारकं ज्ञानम् । क्वचिदनेकेषामेकस्मिन्ननेकप्रकारको यथा ममैव — १. 'प्रोञ्छिताः कर्णाभरणेन्द्रनील किरणाहताः शशिमयूखाः । मानिनीवदने सकज्जलाश्रशङ्कया दयितेन ॥' (गाथा० ४।२) २. 'मदीस्रोत इति भुजंगं महिषो जिह्वया लेढि संतप्तः । महिषस्य कृष्णप्रस्तरसर इति सर्पः पिबति लालाम् ॥' (इति च्छाया

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436