________________
३६४
काव्यमाला।
अत्र स्त्रीहृदयानां क्रूरत्वादिकं लोकेऽप्रसिद्धमेवोत्तरत्वेनोक्तम् । यथा वा
‘स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपातेयत ___ तं च स्प्रष्टुमपि स्मरस्य विशिखा मुग्धे विगानोत्सुकाः । यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः
कीदृनाम सुधेति पृच्छति गिरं दत्तं न तेनोत्तरम् ॥' अत्र किं मध्वित्यादि प्रश्नस्याधरादि उत्तरमप्रसिद्धमेवेति निबद्धम् ।
ननु प्रश्नपरिसंख्यातोऽस्य किं भेदकमिति चेत् , अत्राहुः-तत्रोत्तरस्य लोकप्रसिद्धविषयतया प्रयोजनान्तरविरहेणान्यव्यावृत्तावेव तात्पर्यम् , इह त्वप्रसिद्धविषयत्वादुत्तरस्य स्वार्थ एवेति ॥
इत्युत्तरम् । सूक्ष्मं निरूपयति
प्रतिभातिशयाज्ज्ञातो यद्याकारेगितादर्थः। विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ १ ॥ आकारः संस्थानविशेषः, इङ्गितं नेत्रहस्तव्यङ्गयादिः । ततो यथाश्रुतग्राहिभिर्दुर्बोधमर्थवासनाद्विशेषपरिपाकाद्विज्ञाय दुर्लक्षप्रकारेणैव यदन्यस्मै तत्प्रकाशः क्रियते तत्सूक्ष्ममित्यर्थः ।
आद्यं यथा'संवाहणसुहरसतोसिएण देन्तेण तुह करे लक्खम् ।
चरणेन विक्कमाइत्तचरिअं अणुसिक्खि तिस्सा ॥' अत्र नायकहस्तद्वये लाक्षारससंयोगं दृष्ट्वा द्वित्तलाख्यसुरतमभिज्ञाय तच्छेषेण चरणस्य विक्रमादित्यसाम्यमभिधाय नायिकया नायकाय तत्प्रकाशनं कृतम् ।
१. 'संवाहनसुखरसतोषितेन ददता तव करे लाक्षाम् ।
चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्याः ॥' [गाथा• ५।६४]