________________
अलंकारकौस्तुभः । 'कियत्पचन्नोदनमानयत्कियत्करस्य पप्रच्छ गतागतेन याम् । अहं किमेष्यामि किमेष्यसीति वा व्यधत्त ननं किल लज्जयाननम् ॥
अत्र स्वाभिमुखं नायिकामुखं च करव्यापारेण 'किं त्वं मत्समीपमायास्यसि, किं वाहं त्वत्समीपमेष्यामि' इति नायकाभिप्रायमाकलय्य नायिकया मुखव्यापारेण 'त्वयैवागन्तव्यम्' इति सूचितम् । एवम्'अहर्निशा वेति रताय पृच्छति क्रमेण शीतोष्णकरार्पणाद्विटे।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥' इत्यादावपि बोध्यम् ॥
इति सूक्ष्मम्।
सारं निरूपयति___ सारस्तु पूर्वपूर्वादुत्कर्षिण्युत्तरे प्रोक्ते । यत्रोत्तरोत्तरस्य पूर्वपूर्वप्रतियोग्युत्कर्षवत्त्वं कथ्यते स सारालंकारः । यथा'लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महामहेन्द्रः ।
किं कर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥' केचित्तु-अवस्थाभेदेनैकस्यैवोत्तरोत्तरोत्कर्षवर्णनेऽपि सारः ।
यथा'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ॥'
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयोरेवोत्कर्षः । एकाश्रये क्रमेणानेकाधेयस्थितिरूपपर्यायस्तु यद्यप्यत्र प्रतीयते तथाप्युत्कर्षरूपसारस्याप्यनन्यथासिद्धत्वादङ्गीकार इति वदन्ति ॥ तत्र
'प्रथमश्रितकञ्जकोरकाभावथ लक्ष्मीमनुभूय कन्दुकानाम् ।
अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' १. 'शोभा' ख.