Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 375
________________ अलंकारकौस्तुभः । ३६७ परिश्रमशब्देनात्र व्यापारमात्रं विवक्षितम् । प्रथमे क्रोधजन्यशोणिमो जागरजन्यरक्तत्वाभेदाध्यवसायेन जागरजन्यतावच्छेदकवैजात्यवतो रागस्य जागररूपहेतुव्यधिकरणोक्तिः । अत्र तु दोलायाः कामरूपदोलाभेदाध्यवसिताया दोलाखेलनवैयधिकरण्यभाने दोलासंयोगरूपकारणतावच्छेदकसंबन्धाभावोऽपि दृष्ट्वेत्यनेनोक्तो विशेषः । यथा वा 'संन्यासमकृत काञ्ची जहौ दुकूलं कलत्रमबलायाः । तत्याज रागमधरो मुक्तिमुरीचक्रिरे चिकुराः ॥' अत्र मुक्तिरूपकार्येण त्रयाणां वैयधिकरण्यम् । तेषामपि परस्परकार्यप्रतियोगिककारणवैयधिकरण्यमिति शेषः । क्वचिन्मालारूपा यथा— 'वर्षासु जाता नवयौवनश्रीराशावधूः प्रौढपयोधराभूत् । पुष्पोद्गमोऽजायत केतकीनां बभूवुरस्पृश्यतमास्तटिन्यः ॥' क्वचिदसंगतिसमाधानगर्भापि । यथा— 'अजस्रमारोहति दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासात्स वर्षत्यधिकं पुनर्ययानात्तव त्वन्मयतामवाप्य ॥' अत्र सोपानारोहणं भैम्यां श्वासास्तु नले इति वैयधिकरण्यम् । तत्र नलस्य भैमीतादात्म्यमुपपादकतयोपन्यस्तम् । किं चात्र हेतुपदं प्रयोजकमेवाभिमतम् । तथा च सोपानारोहणं श्रमेऽश्रमस्य च श्वासे हेतुत्वमिति । आरोहणश्वासयोरप्यसंगतिरुक्ता । ननु कारणाभावेऽपि कार्योत्पत्तिरूपायां विभावनायामेवास्यान्तर्भाव इति चेत्, न । तत्र कारणाधिकरणवृत्त्यभावप्रतियोगित्वं कारणस्योच्यते, इह तु कार्याभाववद्वृत्तित्वं कारणस्येति दोषात् । किंच तत्र कारणतावच्छेदक संबन्धावच्छिन्नप्रतियोगिताककारणतावच्छेदकावच्छिन्नाभावसत्त्वम् इह तु कारणतावच्छेदकसंबन्धाभावमात्रं विरोधस्फोरकमिति विशेषात् ॥ नन्वेवं विरोधालंकारात्कुतो भेद इति चेत् । "

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436