Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 381
________________ ३७३ ____ अलंकारकौस्तुभः । संबन्धोऽपि कारणकार्यरूपः । यथा'गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः ।' यथा च । 'यदराज्ञि राजवदिहार्धम्-' इत्यादि ॥ इति समम् । विषमं निरूपयति संवन्धानुपपत्तौ इष्टार्थानाप्स्यनिष्टसंप्राप्तौ । जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ॥ १॥ यत्रात्यन्तविलक्षणभूतयोः परस्परसंबन्ध एवानुपपद्यमानः प्रतीयते स . एको विषमः । यथा'क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् । मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥' अत्र कोमलायुधोत्कटव्यथयोः कार्यकारणभावसंबन्धोऽनुपपन्नवद्भासते। अत्र संबन्धसमाधानमुत्तरार्धगम्यमिति तत्संकीर्णोऽयम् । शुद्धो यथा'न खलु न खलु बाणः संनिपात्योऽयमस्मि न्मृदुनि मृगशरीरे तूलराशाविवाग्निः । क्क बत हरिणकानां जीवितं चातिलोलं ___क च निशितनिपाता वज्रसाराः शरास्ते ॥' गम्यो यथा 'राज्ञः प्रियाय सुहृदे सचिवाय कार्या__ इत्त्वात्मजां भवतु निर्वृतिमानमात्यः । दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥' अत्र दुर्दर्शनेनेति नन्दनविशेषणेन मालतीसंबन्धानहत्वलाभः ।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436