Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 387
________________ अलंकारकौस्तुभः। ३७९ क्रियाविरोधे यथा- 'अमअम विअ हिअअं हत्था तल्हाहरासअल्हाणं । चन्दमुहकत्थणिवसइ अमित्तउहणो तुह वआवो ॥' . अत्र हस्तस्य राजजनकत्वं तस्य प्रतापजनकत्वम् । हस्तप्रतापनिष्ठतृष्णाहरणदहनक्रिययोर्विरोध इति दिकू ॥ इति विषमः । अधिकं निरूपयति आधारस्याधेयादाधेयस्यापि वाधारात् । यदि वर्ण्यते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ यत्राधेयापेक्षया न्यूनपरिमाणस्याप्याधारस्य महत्तया वर्णनम्, यत्र चाधारापेक्षयाल्पस्याधेयस्य महत्तया वर्णनम्, तद्विविधमलंकारः। आधाराधेययोः परस्परापेक्षोत्कर्षोक्तेः । एवं चाश्रयत्वनिरूप्यत्वान्यतरसंबन्धेनोत्कर्षवदाधारकत्वं तेनैव संबन्धेन द्वन्द्वाधेयकत्वम् । एवमपकर्षनिवेशेनापि लक्षणचतुष्टयं पर्यवस्यति । प्रथमं यथा'अङ्के विदर्भेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । यथा पयोराशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥' अत्र जनसमाजापेक्षया कुण्डिनपुरस्य महत्त्ववर्णनम् । द्वितीयं यथा 'आस्ते दामोदरीयामियमुदरदरी यावलम्ब्य त्रिलोकी ___ संमातुं शक्तिमन्ति प्रथमभरवशादत्र नैतद्यशांसि । तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म च्छद्मापन्नानि तत्र द्विपदशनसनाभीनि नाभीपथेन ।' अत्र त्रैलोक्याधारतया महतोऽपि भगवदुदराद्यशसां महत्त्वमुक्तम् ॥ १. ................ .................................................॥ [इति च्छाया।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436