Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 392
________________ .काव्यमाला। ३८४ एकावली निरूपयति प्रथमं विशेषणं यद्विशेष्यमग्रे भवत्यसकृत् । विरहप्रतियोगी वा तद्वानेकावली सोक्ता ॥१॥ यत्र प्रथमं विशेषणीभूतस्य पश्चाद्विशेष्यत्वं सा एका, यत्र च प्रथमतोऽभावप्रतियोगिनोऽन्यप्रतियोगिकाभावाधिकरणत्वं सा परेति द्विविधैकावली । एकवारमात्रं तदुपादाने चमत्काराभावात् । असकृदिति बहुत्वपरम् । तच्चोभयत्रापि बोध्यम् । आद्या यथा'भिण्णघडन्तावत्तो आवत्तन्तरभमन्तभिण्णमहिहरो । महिहरसंभमविहुओ विहुअणिअत्तसलिलो णिअत्तइ उअही ॥' 'प्रचिताः कर्मारम्भा नियतविपाकानि कर्माणि । अतिविषमाश्च विपाका वैषम्यं दुःसहं तेषाम् ॥' विशेष्यत्वं चात्रान्यनिष्ठप्रकारतानिरूपितत्वमात्रं न त्वन्यनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वमपि । अतो नानुपपत्तिः । एवं विशेषणत्वमपि विशेषणतावच्छेदकसाधारणं ग्राह्यम् । तेन 'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ इत्यत्र रूपस्य वराङ्गनायां विशेषणत्वाभावेऽपि न दोषः । अङ्गनानिष्ठविशेष्यतानिरूपितविशेषणताशालिन्यङ्गे रूपस्य विशेषणतापन्नत्वेन विशेषणतावच्छेदकतायाः सत्वात् । द्वितीया यथा'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र हि 'सुचारुपङ्कजाभाववज्जलमभावप्रतियोगि' इति बोधेन पूर्वम१. 'भिन्नघटमानावर्त आवर्तान्तरभ्रमद्भिन्नमहीधरः । __ महीधरसंभ्रमविधुतो विधुतनिवृत्तसलिलो निवर्तत उदधिः ॥' [सेतु. ८।४] २. नितराम्' ख. ३. 'येन' ख.

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436