Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
'मम रूपकीर्तिमहरद्भुवि यस्तमनुप्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥' 'त्वं विनिर्जितमनोभवरूपः सा च सुन्दरि भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादिव कामः ॥' इत्यादावपि संभावनार्थकपदसत्त्वेन हेत्वनिर्णयापत्तिरिति चिन्त्यम् ॥ इति प्रत्यनीकम् ।
मीलितं निरूपयति
सहजनिमित्तजधर्मात्सदृशादन्येन वस्तुना वस्तु । अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ १ ॥ अत्र धर्म्यन्तरवृत्तिधर्मसमेन धर्मेण यस्य पदार्थान्तरस्य तिरोधानं तन्मीलितमिति लक्षणम् || धर्मश्च द्वेधा । खाभाविको नैमित्तिकश्चेति भेदः ।
आद्यं यथा मम -
―――
३८३
'गात्रेषु गन्धफलिकागुणबन्धुरेषु कश्मीरसंभवरसेन परिष्कृतेषु ।
बिम्बाधरे पुनरलक्तकरञ्जितेऽपि
कस्यापि नोद्भवति तत्प्रतिभालवोऽपि ॥'
अत्र साहजिकाभ्यां गात्राधरनिष्ठाभ्यां गौरत्वारुणत्वाभ्यां कुङ्कुमयाव
कनिष्ठतिरस्कारः ।
अन्त्यं यथा
'अपहृतः खेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।
दृशोरपि प्रस्रुतमश्रु सात्विकं घनैः समाधीयत धूमलङ्घनैः ॥' अत्र स्वेदजलस्य दानजलेनागन्तुकधर्मेण खेदजलस्य धूमजन्येन चाश्रुणा सात्विकजन्याश्रूणाम् । अत्राद्यस्य सजातीयापेक्षोत्कर्षवत्वं, द्वितीयस्य च प्रत्ययविषयखकार्यत्वप्रतियोगिक कारणताश्रयकत्वं तिरस्कारत्वप्रयोजकम् ॥ इति मीलितम् ।

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436