________________
.काव्यमाला।
३८४ एकावली निरूपयति
प्रथमं विशेषणं यद्विशेष्यमग्रे भवत्यसकृत् ।
विरहप्रतियोगी वा तद्वानेकावली सोक्ता ॥१॥ यत्र प्रथमं विशेषणीभूतस्य पश्चाद्विशेष्यत्वं सा एका, यत्र च प्रथमतोऽभावप्रतियोगिनोऽन्यप्रतियोगिकाभावाधिकरणत्वं सा परेति द्विविधैकावली । एकवारमात्रं तदुपादाने चमत्काराभावात् । असकृदिति बहुत्वपरम् । तच्चोभयत्रापि बोध्यम् ।
आद्या यथा'भिण्णघडन्तावत्तो आवत्तन्तरभमन्तभिण्णमहिहरो । महिहरसंभमविहुओ विहुअणिअत्तसलिलो णिअत्तइ उअही ॥' 'प्रचिताः कर्मारम्भा नियतविपाकानि कर्माणि ।
अतिविषमाश्च विपाका वैषम्यं दुःसहं तेषाम् ॥' विशेष्यत्वं चात्रान्यनिष्ठप्रकारतानिरूपितत्वमात्रं न त्वन्यनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वमपि । अतो नानुपपत्तिः । एवं विशेषणत्वमपि विशेषणतावच्छेदकसाधारणं ग्राह्यम् । तेन
'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ इत्यत्र रूपस्य वराङ्गनायां विशेषणत्वाभावेऽपि न दोषः । अङ्गनानिष्ठविशेष्यतानिरूपितविशेषणताशालिन्यङ्गे रूपस्य विशेषणतापन्नत्वेन विशेषणतावच्छेदकतायाः सत्वात् । द्वितीया यथा'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र हि 'सुचारुपङ्कजाभाववज्जलमभावप्रतियोगि' इति बोधेन पूर्वम१. 'भिन्नघटमानावर्त आवर्तान्तरभ्रमद्भिन्नमहीधरः । __ महीधरसंभ्रमविधुतो विधुतनिवृत्तसलिलो निवर्तत उदधिः ॥' [सेतु. ८।४] २. नितराम्' ख. ३. 'येन' ख.