________________
अलंकारकौस्तुभः।
३८५ भावप्रतियोगिनः पङ्कजस्य द्वितीयवाक्ये षट्पदाभावाधिकरणत्वम् । न चैवमपि 'अलीनषट्पदम्-' इत्यत्र अलीनाः षट्पदा यत्रेति बहुव्रीहिणा पद्मसंबन्धाभाववत्षट्पदबोधादभावे संबन्धस्यैव प्रतियोगितया षट्पदस्यातथात्वाद्दोष एवेति वाच्यम् । प्रतियोगिपदेन तदवच्छेदककोटिसाधारणप्रतियोगिकोटिनिविष्टत्वमात्रस्य विवक्षितत्वात् । अत एव'न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । नास्ते स धर्मो न हि यत्र सत्यं सत्यं न तद्यत्कपटेन विद्धम् ॥'
इत्यत्र वदनक्रियाया एवाभावप्रतियोगित्वेऽपि न क्षतिः । कर्मत्वेन धर्मस्यापि तत्कोटिनिविष्टत्वात् ॥ अत एव'नार्थः स यो न खहितं समीक्षते न तद्धितं यन्न परानुतोषणम् ।
न ते परे ये न हि साधुताश्रिता न साधुता सा हि न यत्र माधवः ॥' इत्याद्युपपत्तिः ॥
यत्तु-पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वरूपभेदे उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम् । स्वसंबन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । खव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहकत्वम् ।
यथा'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रिया। परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः ॥'
द्वितीयं यथा । 'नार्थ-' इत्यादि । आये हितार्थदर्शनस्य पाण्डित्यरूपविशेष्यतावच्छेदकनियामकत्वं द्वितीये च हितावेक्षणव्यतिरेकेणार्यत्वव्यतिरेकाभिधानमिति ॥ तन्न । 'भिण्णघडं तावत्तो' इत्यादौ, 'न तज्जलम्-' इत्यादौ चोदाहृतेऽव्याप्तेः । तत्र तत्रोत्तरविशेष्यतावच्छेदकनियामकतायाः स्वव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकप्रयोजकतायाश्चाभावात् । न हि पङ्कजव्यतिरेकेण जलत्वाभावे तात्पर्यम्, किं तु जलत्वावच्छेदेन पङ्कजायोगव्यतिरेक एव, शरत्समयपरे श्लोके तथैव तात्पर्यावगमात् ।
इत्येकावली ।