________________
अलंकारकौस्तुभः ।
३६७
परिश्रमशब्देनात्र व्यापारमात्रं विवक्षितम् । प्रथमे क्रोधजन्यशोणिमो जागरजन्यरक्तत्वाभेदाध्यवसायेन जागरजन्यतावच्छेदकवैजात्यवतो रागस्य जागररूपहेतुव्यधिकरणोक्तिः । अत्र तु दोलायाः कामरूपदोलाभेदाध्यवसिताया दोलाखेलनवैयधिकरण्यभाने दोलासंयोगरूपकारणतावच्छेदकसंबन्धाभावोऽपि दृष्ट्वेत्यनेनोक्तो विशेषः ।
यथा वा
'संन्यासमकृत काञ्ची जहौ दुकूलं कलत्रमबलायाः । तत्याज रागमधरो मुक्तिमुरीचक्रिरे चिकुराः ॥'
अत्र मुक्तिरूपकार्येण त्रयाणां वैयधिकरण्यम् । तेषामपि परस्परकार्यप्रतियोगिककारणवैयधिकरण्यमिति शेषः ।
क्वचिन्मालारूपा यथा—
'वर्षासु जाता नवयौवनश्रीराशावधूः प्रौढपयोधराभूत् । पुष्पोद्गमोऽजायत केतकीनां बभूवुरस्पृश्यतमास्तटिन्यः ॥' क्वचिदसंगतिसमाधानगर्भापि । यथा—
'अजस्रमारोहति दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासात्स वर्षत्यधिकं पुनर्ययानात्तव त्वन्मयतामवाप्य ॥' अत्र सोपानारोहणं भैम्यां श्वासास्तु नले इति वैयधिकरण्यम् । तत्र नलस्य भैमीतादात्म्यमुपपादकतयोपन्यस्तम् । किं चात्र हेतुपदं प्रयोजकमेवाभिमतम् । तथा च सोपानारोहणं श्रमेऽश्रमस्य च श्वासे हेतुत्वमिति । आरोहणश्वासयोरप्यसंगतिरुक्ता । ननु कारणाभावेऽपि कार्योत्पत्तिरूपायां विभावनायामेवास्यान्तर्भाव इति चेत्, न । तत्र कारणाधिकरणवृत्त्यभावप्रतियोगित्वं कारणस्योच्यते, इह तु कार्याभाववद्वृत्तित्वं कारणस्येति दोषात् । किंच तत्र कारणतावच्छेदक संबन्धावच्छिन्नप्रतियोगिताककारणतावच्छेदकावच्छिन्नाभावसत्त्वम् इह तु कारणतावच्छेदकसंबन्धाभावमात्रं विरोधस्फोरकमिति विशेषात् ॥ नन्वेवं विरोधालंकारात्कुतो भेद इति चेत् ।
"