________________
३६८
काव्यमाला ।
अत्र प्राञ्चः -- तत्र येकाधिकरणे द्वयोः संबन्धाद्विरोधभानम्, इह त्वधिकरणद्वयादित्युक्तम् ॥
यत्तु — कैश्चिदुक्तम् इहापि तत्तत्कार्यतावच्छेदकधर्मतत्कारणवैयधिकरण्यरूपयोधर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोधप्रतिभानोत्पत्तेदं युक्तम् । किं तु विरोधे उत्पत्तिविषयं विनैव विरोधप्रतिभानम्, इह तु उत्पत्तिविमर्षपूर्वकमेवेति विशेष इति, तच्चिन्त्यम् । कारणवैयधिकरयस्य कार्यतावच्छेदकसमानाधिकरणत्वप्रतीतेर्विरोधज्ञानहेतुत्वात् । कारणाभावस्य कार्य सामानाधिकरण्यसंभवेऽपि कार्यनिष्ठविरोधप्रतीति (ते) स्तेनानुपपादनात् कारणाभाववद्वृत्तित्वरूपस्य तस्य विरोधात्मकत्वात् ॥ न च कार्याधिकरणावृत्तित्वं घटानां विरोधस्फोटकं कार्यनिष्ठं तूक्तखरूपं विरोध इति वाच्यम् । द्वयोरपि समानवित्तिवेद्यत्वाद्विनिगमकाभावाच्च । कारणाभावकार्योभयाधिकरणत्वं कार्याधिकरणनिष्ठं विरोधभासकमिति त्वनाशङ्कयमेव । कारणाभावकार्ययोर्विरोधज्ञानं तस्यैवासिद्धेः । किं त्वित्यादिकमपि न युक्तम् । ‘किसलयकरचरण - ' इत्यादौ तापोत्पत्तिविमर्ष विना विरोधानवभासात् । तस्मात् यत्र किंचिद्व्यतिरेकप्रयुक्ता विरोधस्फूर्तिस्तंत्रासंग्रहः । यत्र तु स्वरूपेणैव सा, तत्र विरोध इत्येव विभाग इत्यवधेयम् ||
यत्तु —
'अन्यत्र केरणीयस्य ततोऽन्यत्र कृतिश्च या । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
पारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराकरोत् ॥'
इति भेदद्वयमन्यदपि तन्न । यत्र विशेष्यतावच्छेदकसंबन्धेन अपारिजातत्वप्रकारिका इच्छा तत्र विशेष्यतावच्छेदकतासंबन्धेन अपारि
१. 'स्तस्य संग्रह: ' क. परंतु 'स्तत्रासंगतिः' इति युक्तम्. २. 'कारणाख्यश्च' ख. ३. शत्रुजातरहिताम्. ४. पारिजाततरुरहिताम् ५. गोसमूहरक्षाप्रवृत्तः ६. गोवर्धनगिरिधारणम्.