________________
अलंकारकौस्तुभः ।
३६९
जातत्वप्रकारिका कृतिरिति प्रकृते चोक्तसंबन्धेन इच्छा पृथिवीत्वे, अपारिजातत्वप्रकारककृतिः स्वर्गे इति वैयधिकरण्यस्य सत्त्वात् ॥ एवम् — 'त्वत्खगखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेऽभूत् ॥'
इत्यत्रापि भूषणतासंबन्धेन कङ्कणसंयोगं प्रति भूष्यतासंबन्धेन हस्तादेरकरणतया हस्तत्व कङ्कणयोर्वैयधिकरण्यमवसेयम् । तथा 'गोत्रोद्धारप्रवृत्तोऽपि -' इत्यत्र
'मोहं जगत्रयभुवामपनेतुमेत
दादाय रूपमखिलेश्वरदेहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥'
इत्यत्रापि गोत्रोद्भेदे मोहप्रवृद्धौ चोद्देश्यत्वसंबन्धेन तत्तद्विषयकप्रवृत्त्योहेतुतया तदभावेऽपि कार्योक्त्या विभावनायामेवान्तर्भावसंभवान्नाधिक्यम् । व्यधिकरणत्वपदेन सामानाधिकरण्याभावमात्रस्याभिमतत्वाद्वेति दिक् ॥ इत्य संगतिः ।
समाधिमाह
भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये । चिकीर्षितस्य कार्यस्य सिद्ध्यर्थमभिमतो यो हेतुस्तदतिरिक्तहेतुना कार्यस्य सौकर्यं समाधिः । समाधीयते कार्यमनेन इति व्युत्पत्तेः ॥
१.
तत्र प्रकृतकारणसंभवे यथा
'पीअपडिअस्स पहणो पुट्ठि पुत्ते समारुहतम्मि |
दढमण्णुदुण्णिआऍ वि हासो घरिणीए णेक्कन्तो ॥ '
४७
-
' पादपतितस्य पत्युः पृष्ठं पुत्रे समारुहति ।
दृढमन्युनाया अपि हासो गृहिण्या निष्क्रान्तः ॥ [ गाथा ० १११]