________________
३७०
काव्यमाला |
अत्र मानापनोदार्थं प्रणते पत्यौ तदभावेऽपि तत्पृष्ठे पुत्रसमारोहणरूपविलक्षणचेष्टाहासगम्यो मानत्यागः ॥ क्वचिदनारब्ध एव यथा
'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टचैतदुदीर्ण घनगर्जितम् ॥'
सौकर्यमत्र तद्धर्मावच्छिन्नोद्देश्य कप्रवृत्तिविषयहेत्वतिरिक्तहेतुना कार्योपकाराधानम्, उपकारश्च तदुपयुक्तकिंचित्सहकारिसकलसहकारिसमवधानसजातीयान्तरसंवलितत्वादिसाधारणः । कारणबाहुल्यस्य वाविवक्षितत्वादत्र समुच्चयभे(याद्धे )दः कार्यस्य प्रवृत्तिविषयत्वस्य फलतो लाभात् काव्यलिङ्गात् । तृतीयोपकारो यथा
―
'चातकस्त्रिचतुरः पयःकणान्याचते जलधरं पिपासया ।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ अत्राल्पजलप्रार्थनायामपि जलनिष्ठौदार्येण प्रभूतजलसिद्धिः ॥ एतेन प्रहर्षणमलंकारान्तरमपास्तम् । एवं हि तत् । साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् । तत्रिविधम् । अकस्मादभीप्सि - तार्थस्य लाभे, तत्सिद्ध्यर्थे यत्ते क्रियमाणे ततोऽप्यधिकवस्तुनो लाभे, उपायार्थप्रवृत्त्या फललाभे च । क्रमणोदाहरणानि -
'तिरस्कृतो रोषवशात्परिष्वजन्मियो मृगाक्ष्या शयितः पराङ्मुखः । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥' 'केली मन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः पुरतः सरोरुहदृशः संवीजनं कुर्वतः । जानत्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यवधार्य वक्षसि तया पाणिर्ममाधीयत ।'
१. 'चतुरान्पयः' इति भवेत्. २. 'सरुषः' ख.