________________
अलंकारकौस्तुभः।
३७१ _ 'तदर्शनोपायविमर्शनार्थ मया यथालीसदनं गतेन । - तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥ इति ॥ ___ अत्रेदं चिन्त्यते-उद्देश्यतासंबन्धेन प्रवृत्तिविषयस्य यदर्थप्रयोजकत्वमिच्छाविषयत्वप्रयोजकं तदर्थावच्छिन्नकार्यस्य हेत्वन्तरात्सिद्धिरिति तावदस्मदुक्तरीत्या समाधिलक्षणं पर्यवसितम् , तच्च भवदभिमतप्रहर्षणालंकारविषयसाधारणमेव । तथा हि । मानत्यागरूपकार्यस्य प्रतिबन्धकाभावविषयस्वालिङ्गनादिप्रयोजकत्वमेव नायकनिष्ठेच्छाविषयतायां प्रयोजकम् । आलिङ्गनाद्यवच्छिन्नमानत्यागस्य च भयात्सिद्धेः । एवं द्वितीयादिभेदेऽपि योज्यम् ॥ ___ यत्तु-तत्र व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्येन तदानीं तत्साध्यकुचादिस्पर्शानुपस्थितेरिति, तन्न । तदापि तदुपस्थितेरावश्यकत्वात् । अन्यथा तदुद्देशस्यैवानुपपत्तेः ॥ एवं तृतीयेऽपि उपायविमर्षरूपकार्यस्य नायिकादर्शनप्रयोजकत्वमिच्छाविषयप्रयोजकम्, तदवच्छिन्ननायिकादर्शनस्य हेत्वन्तरात्सिद्धिसत्वात् । तत्प्रयोज्यतावच्छेदकप्रयोज्यैतदुभयं विवक्षितम्, अतो नासंगतिः ॥
एवम्
'लोभाद्वराटकानां विक्रेतुं तक्रमनिशमटन्त्या ।
लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' इत्यत्र वराटकानामिच्छाविषयत्वे वस्त्वन्तरप्राप्तिप्रयोजकत्वं प्रयोज्यम् । तत्प्राप्यवच्छिन्नं च प्रयोजकतासंबन्धेन नीलमणिरूपकार्यमिति साध्यवसानमत्र कार्यमिति विशेषः ॥ एवम्'उचित्य प्रथममधः स्थितं मृगाक्षी पुष्पौषं श्रितविटपं गृहीतुकामा।
आरोढुं पदमधादशोकयष्टावामूलं पुनरपि तेन पुष्पिता(तो)ऽभूत् ॥' इत्यादावपि योज्यम् ।
इति समाधिः ।
१. 'तदाली' ख.