Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३४२
अलंकारकौस्तुभः। • 'अज्ज व्वेअ पउत्थो अज व्विअ सुण्णआई जाआई । - रत्थामुहदेउलचत्तराई अम्हं च हिअआइं॥' अत्र प्रस्थानजननक्रिययोः । तृतीयो यथा मम
'सज्जितकज्जलरेखो बिम्बाधर ईक्षितश्च दयितस्य ।
तामरसच्छदशोणं नयनं चाभून्मनखिन्याः ॥' अत्र दर्शनशोणत्वरूपयोर्गुणक्रिययोः । इह यौगपद्यमानं विवक्षितं न तु सामानाधिकरण्यं वैयधिकरण्यं वा । तच्चोदाहृतेषु स्पष्टम् ।
इति समुच्चयः। पर्यायं निरूपयति___ एकमनेकमनेकैकस्मिन्क्रमतोऽस्ति स पर्यायः ।
एकं वस्तु अनेकस्मिन् अनेकं वा क्रमेणैकस्मिन् यदुच्यते स द्विविधः पर्याय इत्यर्थः । तत्रापि प्रयोजकाभिधानानभिधानाभ्यां द्वैविध्यमध्यवसेयम् ।
आद्यं यथा_ 'तीअ मुहाहिं तुअ मुअं तुज्झ मुहाओ अ मज्झ चलणम्मि ।
हत्थाहत्थीअ गओ अइदुक्करआरओ तिलओ ॥' अत्रैकस्यैव तिलकस्य प्रतिपक्षनायिकामुखनायकमुखखचरणरूपेष्वनेकाश्रयेषु क्रमेण स्थितिरुक्ता । यथा वा'जो तीऍ अहरराओ रत्तिं उव्वासिओ पिअअमेणं ।
सो विअ दीसइ गोसे सवत्तिणअणेसु संकन्तो ॥' अत्राधरस्थितस्य लौहित्यस्य सपनीनेत्रसंक्रमोक्त्या आश्रयभेदः । ए. कत्वं वाध्यवसानमात्रेण न तु पारमार्थिकत्वेनवेत्यर्थः । १. 'अद्यैव प्रोषितोऽथैव शून्यकानि जातानि ।
रथ्यामुखदेवकुलचत्वराण्यस्माकं च हृदयानि ॥' [गाथा० २।९०] २. 'तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे।।
हस्ताहस्तिकया गतोऽतिदुष्करकारकस्तिलकः ॥' [गाथा० २१७९] ३. 'यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन ।
स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥' [गाथा० २१६] ४. 'नेति भावः' ख.

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436