Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ विपाकश्रुताङ्गसूत्रम् १/१/१ आयाहिणपयाहिणं करेति र ता वंदति र ता नमसति २ ता जाव पञ्जुवासति, एवं वयासी वृ. 'तेणं कालेण'मित्यादि,-'तेणं कालेणंतेणं समएणं तितस्मिन् काले तस्मिन् समये, णंकारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात्, अथ कालसमययोः को विशषः उच्यते, सामान्यो वर्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेनतेन समयेन हेतुभूतेनैव होत्य'त्तिअभवत्, यद्यपिइदानीमप्यस्ति सानगरीतथाऽप्यवसर्पिणीकालस्वभावेन हीयमानत्वाद्वस्तुस्व-भावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मस्वामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, ‘वण्णओ'त्ति 'ऋद्धिस्थिमियसमिद्धेत्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकव-द्रष्टव्यः । 'पुनभद्दे चेइए'त्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने 'अहापडिरूवं जाव विहरइत्ति –“अज्जसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गिण्हइ अहा० उग्गण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ" तत्र येन प्रकारेण प्रतिरूपः-साधूचितस्वरूपोयथाप्रतिरूपोऽतस्तमवग्रहं-आश्रयमिति विहरति आस्ते, 'जामेव दिसंपाउब्यूया' यस्या दिशः सकाशात् 'प्रादुर्भूता प्रकटीभूताआगतेत्यर्थः 'तामेव दिसिंपडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः। 'सत्तुस्सेहे'त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः ‘जहा गोयमासामी तह' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः,कियहूरं यावत्? इत्याह-'जाव झाणकोट्ठो'त्ति 'झाणकोट्टोवगए' इत्येतत्पदंयावदित्यर्थः,सचायंवर्णकः-समचउरंससंठाणसंठिएवज्जरिसहनारायसंघयणे'त्ति विशेषणद्वयमपीदमागमसिदं कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य यः पुलको लवस्तस्य यो निकषः कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, उग्गतवे' उप्रम्-अप्रधृशष्यतपोयस्यसतथा दित्ततवे'दीप्तंहुताशनइव कर्मवनदाहकत्वेन ज्वलत्तेजलसस्तत्तपो यस्य स तथा तत्ततवे'तप्तं तापितं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूवः संतापितो यतोऽन्यस्यासंस्पृश्यमिवजातमिति, ‘महातवे' प्रशस्ततपाः बृहत्तपावा, 'उराले भीमः अतिकष्टतपःकारितया पार्श्ववर्त्तिनामल्पसत्तावानांभयजनकत्वादुदारो वा प्रधानइत्यर्थः 'धोरः' निघृणः परीषहाद्यरातिविनाशे घोरगुणे अन्यैर्दुरनुचरगुणः घोरतवस्सी घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरे अल्पसत्तदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिव उज्झितं शरीरं येन तप्रतिकर्मत्यागात ‘संखित्तविउलतेउलेस्से' संक्षिप्ता शरीरान्तर्लिनीत्वाद्विपुला च-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वालायस्यस तथा ‘उजाणू शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्वंजानुनी यस्य स उर्ध्वजानुः 'अहोसिरो' अधोमुखोनोर्द्ध तिर्यग्वा विक्षिप्तदष्टिरितिभावः ‘झाणकोट्ठोवगए' ध्यानमेव कोष्ठोध्यानकोष्ठस्तमुपगतो यःस तथा 'विहरइत्ति संजमेणं तवसा अप्पाणंभावेमाणे विहरई' इत्येवं दृश्य, ‘जायसड्डे' प्रवृत्तविवक्षितार्थश्रवणवाञ्छः, यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्धारितार्थप्रत्ययः 'जायकोउहल्ले' प्रवृत्तश्रवणौत्सुक्यः ३ 'उप्पन्नसट्टे' प्रांगभवदुद्भूतश्रवणवाछः उत्पन्नश्रद्धत्वात्प्रवृत्तश्रद्धः इत्येवं हेतुफलविवणान पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकोउ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86