Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुताङ्गसूत्रम् १/२/१३
'अहम्मलज्जणे' अधर्म एव-हींसादी प्ररज्यते - अनुरागवान् भवतीत्यधर्म्मप्ररजनः 'अहम्मसमुदाचारो' अधर्म्मरूपः समुदाचारः - समाचारो यस्य स तथा 'अहम्मेणं चैव वित्तिं कप्पेमाणे' त्ति अधर्मेणपापकर्म्मणा वृत्तिं - जीविकां कल्पयमानः- कुर्वाणः तच्छील इत्यर्थः 'दुस्सीले ' दुष्टशीलः 'दुव्वए' अविद्यमाननियम इति 'दुप्पडियाणंदे' दुष्प्रत्यानन्दः - बहुभिरपि सन्तोषकारणैर-नुत्पद्यमानसन्तोष इत्यर्थः । ' अहीण' त्ति ' अहीणपुण्णपंचेंदियसरीरे' त्यादि दृश्यम् । 'आवन्नसत्त' त्ति गर्भे समापन्नजीवेत्यर्थः । ४ 'धन्नाओ णं ताओ अम्मयाओ' त्ति अम्बा - जनन्यः, इह यावत्करणादिदं दृश्यं - 'पुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मायओ कयलक्खणाओ णं ताओ, तासिं अम्मयाणसुलद्धे जम्मजीवियफले' त्ति व्यक्तं च ।
२२
'ऊहेहि य'त्ति गवादीनां स्तनोपरिभागैः 'थणेहिय'त्ति व्यक्तं 'वसणेहिय'त्ति वृषणैः - अण्डैः 'छेप्पाहि य'त्ति पुच्छैः ककुदैः - स्कन्धशिखरैः 'वहेहि य'त्ति वहैः स्कन्धः कर्णादीनि व्यक्तानि 'कंबलेहि य'त्ति सास्नाभिः 'सोल्लिएहि य'त्ति पक्कः 'तलिएहि य'त्ति स्नेहेन पक्कः 'भजिएहि भ्रष्टैः 'परिसुक्कहिय'त्ति स्वतः शोषमुपगतैः 'लावणेहि य'त्ति लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्न मधु च - माक्षिकनिष्पन्नं मेरकं - तालफलनिष्पन्नं जातिशेच जातिकुसुमवर्णं मद्यमेव सीधु च-गुडधातकीसंभवं प्रसन्ना- द्राक्षादिद्रव्यजन्या मनः प्रसत्तिहेतुरिति ।
'आसाएमाणीओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यज्यन्त्य इक्षुखण्डादेरिव 'विसाएमाणीओ त्ति विशेषेण खादयन्त्योऽल्पमेव त्यजन्त्य खर्जूरादेरिव 'परिभाएमाणीओ' त्ति ददत्यः 'परिभुंजमाणीओ' त्ति सर्वमुपभुआना: अल्पमप्यपरित्यज्यन्त्यः शुष्का - शुष्केव शुष्का रुधिरक्षयात् 'भुक्ख'त्ति भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निमसा 'ओलुग्ग' त्ति अवरुग्णाभग्नमनोवृत्तिः 'ओलुग्गसरीरा' भग्नदेहा 'णित्तेय'त्ति गतकान्तिः 'दीनविमणवयण' त्ति दीनादैन्यवती विमनाः - शून्यचित्ता हीणा च-भीतेति कर्म्मधारयः, 'दीनविमणवयण' त्ति पाठान्तरं, तत्र विमनस इव--विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियनयनवयणकमले 'ति 'ओमंधिय'त्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा' विगतयुक्तायुक्तविवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं - 'करतलपल्लत्थमुहा' करतले पर्यस्तं-निवेशितं मुखं यया सा तथा 'अट्टज्झाणोवगया भूमीगयदिडीया झियाइ'त्ति ध्यायतीचिन्तयति । 'इमं च णं' ति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उदागच्छित्ता उपलं कूडग्गाहिणि ओहयमाणसकप्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्णं कृत्वाऽध्येयं, सूचामात्रत्वात्पुस्तकस्य ।
'ताहिं इट्ठाहिं' इत्यत्र पञ्चकलक्षणादङ्कादिदं दृश्यं - 'कंताहिं पियाहिं मणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'वग्गूहिं'ति वग्भिः 'एगे'त्ति सहायाभावात् 'अबीए' त्ति धर्म्मरूपसहायभावात् । 'सन्नद्धबद्धवम्मियकवए' पूर्ववत् यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउपहरणे' इत्येतदन्तं दृश्यम् 'संपुन दोहल' त्ति समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो हल' त्ति वाञ्छितासमानयनात् 'विणीयदोहल'त्ति वाञ्छाविनयनात् 'विच्छिन्नदोहल' त्ति विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् 'संपन्नदोहल' त्ति विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86