Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
बीजैर्वा हरितैर्वा संसक्तं उन्मिभं शीतोदकेन वाऽवसिक्तं रजसा वा परिगुण्डितं व्याप्तं वा तथा प्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा परहस्ते वा परपात्रे वाऽप्रासुकमनेषणीयमिति मन्यमानः सति लाभेऽपि न प्रतिगृह्णियात्। अथैवं कथञ्चिदनाभोगादेवंभूताहारो गृहीतः स्यात्तत्र विधिमाह-स च सहसा प्रतिगृहीतवान् स्यात्, तदा तमादाय एकान्तमपक्रामेद, अपक्रम्याऽथ आरामे वाऽथ उपाश्रये वा गच्छेद् अल्पाण्डे वा अल्पप्राणे अल्पबीजे अल्पहरिते अल्पाऽवश्याये तुषाररहिते अल्पोदके अल्पोत्तिंग-पनक-दक-मृत्तिका-मर्कटसन्तानके अत्र सर्वत्राऽपि अल्पशब्दः अभाववाची ज्ञेयः, विविच्य विविच्य त्यक्त्वा त्यक्त्वा उन्मिभं वा विशोध्य तत उज्झितशेषं शुद्धं संयत एव भुञ्जीत पिवेद्वा, यं च प्राचुर्यादशुद्धपृथक्करणाऽसम्भवाद्वा न शक्नुयाद् भोक्तुं वा पातुं वा तमादाय एकान्तमपक्रामेत्, अथ ध्यामितस्थण्डिले दग्धभूमौ वाऽस्थिराशौ वा किट्टराशौ लोहादिमलराशौ वा तुषराशौ वा गोमयराशौ वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयम एव परिष्ठापयेत् ।।१।।
साम्प्रतं ओषधिविषयं विधिमाह -
से भिक्खूवा भिक्खुणी वागाहावाकुलंजाव पविढे समाणे से जाओपुण ओसहीओ जाणिज्जा-कसिणाओसासियाओ अविवलकाओ अतिरिच्छच्छिन्नाओ अबुच्छिण्णाओ तरुणियं वा छिवाडि अणभिक्कंतं भज्जियं पेहाए अफासुयं अणेसणिज्जति मन्नमाणे लाभे संते नोपडिग्गाहिज्जा। सेभिक्खू वा. जाव पविढे समाणे सेजाओपुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विवलकाओ तिरिच्छच्छिन्नाओ वृच्छिन्नाओ तरुणियं वा छिवा िअभिक्कंतं भज्जियं पेहाए फासुयं एसणिज्जंति मन्नमाणे लाभे संते पडिग्गाहिज्जा ।। सूत्र-२ ।।
स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं यावत् प्रविष्ट सन् स या ओषधीर्जानीयात्, तद्यथाकृत्स्नाः स्वाश्रयाः अविनष्टयोनयः, अद्विदलकृता अनूर्ध्वपाटिताः, अतिरश्चीनच्छिन्ना अखण्डाः अव्यवच्छिन्नाः सचेतनाः तथा तरुणी वा अपरिपक्वां वा फली भाषायां 'सिंग' तां वाऽनभिक्रान्ताम् अभग्नां प्रेक्ष्याऽप्रासुकं सचित्तम् अनेषणीयम् आधाकर्मादिदोषदुष्टमिति मन्यमानो लाभे सति न प्रतिगृह्णीयात्। स भिक्षुर्वा यावत् प्रविष्टः सत्र सयाः पुनरोषधीस्ता एवं जानीयात्, तद्यथा-अकृत्स्ना अस्वाश्रया द्विदलकृतास्तिरश्चीनच्छिन्ना व्यवच्छिन्नास्तरुणिकां वा फलीमभिक्रान्तां भग्नां प्रेक्ष्य प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् ।।२।।
ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह -
से भिक्खू वा. जाव समाणे से जं पुण जाणिज्जा-पिहयं वा बहुरयं वा भुंजियं वा मथुवा चाउलं वा चाउलपलंबं वा सइं संभज्जियं अफासुयं जाव नो पडिगाहिज्जा। से
आचारागसूत्रम्

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 146