Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 12
________________ आदिपुराणे प्रथमपर्वणि। ७६० तमशकसंवत्सरात् ७७० तमशकसंवत्सरमध्ये विरचितः किलादिपुराणः श्रीमद्भगवजिनसेनाचारित्यस्त्येकविधया 'निश्चितिः अतोनुमीयते यत् ७६० तमशकसंवत्सरस्य अर्थात् ८३८ तमस्रीष्टाब्दस्य सांन्निध्ये व्यस्तार्षीत् कीर्तिवल्ली श्रीमद्विद्यानंदिप्रभोः। श्रीमदकलंकविवृतां समंतभद्रोक्तमत्र संक्षेपात् । परमागमार्थविषयामष्टसहस्री प्रकाशयति ॥ १॥ इत्यष्टसहस्न्या दशमाध्यायस्यानेनपद्येन श्रीमद्विद्यानंदिनाष्टशतीकर्तुः श्रीमदकलंकदेवस्योल्लेखः कृतः। परीक्षामुखप्रणेता श्रीमन्माणिक्यनदिविभुः, निम्नलिखितपद्येन श्रीमदकलंकदेवविद्यानंदिनौ सस्मार । सिद्धं सर्वजनप्रबोधजननं सद्योऽकलंकाश्रयं विद्यानंदसमंतभद्रगुणतो नित्यं मनोनंदनं । निर्दोषं परमागमार्थविषयं प्रोक्तं प्रमालक्षणं युक्त्या चेतसि चिंतयंतु सुधियः श्रीवर्धमानं जिनं ॥१॥ प्रथमाध्यायः। एवं श्रीमत्पभाचन्द्ररपि श्रीमन्माणिक्यनंदिकररचितपरीक्षामुखभाष्यभूतप्रमेयकमलमार्तडेऽनेकत्र श्रीविद्यानंदिनां समुल्लेखः कृतः तैरेव च स्वरचितश्रीन्यौयकुमुदचंद्रोदये श्रीमद्भट्टाकलंकदेवस्याप्यनेनपद्येन समुल्लेखो विहितः। बोधः कोप्यसमः समस्तविषयं प्राप्याकलंकं पदं जातस्तेन समस्तवस्तुविषयं व्याख्यायते तत्पदं । किं न श्रीगणभृजिनेंद्रपदतः प्राप्तप्रभावः स्वयं व्याख्यात्यप्रतिमं वचो जिनपतेः सर्वात्मभाषात्मकं ॥ एवं श्रीमन्जिनसेनाचार्यैरपि अकलंकप्रैभाचंद्रपात्रकेसरीतित्रयाणां विदुषामादिपुराणप्रारंभे संस्मृतिर्विहिता । इमे सर्वे विद्वच्छिरोमणयः समकालीना एवेति निर्धार्यतेऽस्माभिः प्रतिपादितोलेखसमष्ट्या । क्रमश्चैषां अकलंकः, विद्यानंदी, माणिक्यनंदी, प्रभाचंद्रः जिनसेन इत्येवं पर्यवस्यते । आदिपुराणनिर्माणानेहसि सर्वेषांखल्वमीषां विदुषां कीर्तिलताः, भूमंडले वितस्तरुरित्यप्यभिमतिः । श्रीमदकलंकदेवैः कुत्रापि विद्यानंद्याद्याचार्योल्लेखस्यांशस्याप्यकरणात् सर्वतः प्राक्त्वकलंकएव संप्रत्यपादि अभूञ्चैतस्मायेव महनीयत्व सौभाग्यावाप्तिर्निखिलेष्वेष्विति प्रतीयते । समयश्चैतस्य महनीयस्य, राष्ट्रकूटवंशीयसाहसतुंग (शुभतुंग) नरपतिपरिषदि निम्नलिखितपद्यस्य प्रतिपादनात् अष्टमशताब्दावेवाङ्गीकृतः । श्रवणवलगुलमाल्लषणप्रशस्तौ विलिखितं चैतत्पद्यं । राजन् साहसतुंग संति बहवः श्वेतातपत्रा नृपाः किंतु त्वत्सदृशो रणे विजयिनस्त्यागोन्नता दुर्लभाः। तद्वत्सति बुधा न संति कवयो वागीश्वरा वाग्मिनो । नानाशास्त्राविचारचातुराधयः काले कलौ मद्विधाः ॥ भूपतिश्रीसाहसतुगंमहोदयः कृष्णराजाभिख्ययापि भुवि समुपालेभे विश्रुतिं । नरपतिरयं ७ ५२७७५ तमे खीष्टाब्दे समजनिष्टेति दाक्षिणेतिहासे श्रीडाक्टरभांडारकरमहोदयैः पर्यवसितमित्यतोऽपि निर्धार्यते श्रीमदकलंकदेवास्तित्वमष्टमशताब्दौ तदुत्तरार्धे वा प्रतिप्रद्यमानमलमकारीभारतं वर्ष निस्संशयं । तथा बोधःकोपीत्युपरिसमुद्बोधितपद्यतोप्येवं प्रतीयते यदभूच्छ्रीमत्प्रभाचंद्रः श्रीमद्भट्टाकलंकांतेवासी १विलोकयतु जनमित्र कार्यालयबंबइद्वाराप्रकाशितविद्वदनमालाया जिनसेनगुणभद्राचार्यशीर्षकनिबंधे । २ ताडपत्रोपारलिखितैका प्रतिमूर्तिरस्य ग्रंथस्य श्रवणबेलगलमठे विद्यते । ३ चंद्राशशुभ्रयशसं प्रभाचंद्रकविं स्तुवे । कृत्वा चद्रोदयं येन शश्वदाहादितं जगत् ॥४७॥ ४ स्वकरविलसितप्रमेयकमलमार्तंडग्रंथावसाने निम्नलिखितपद्याभ्यां श्रीमत्प्रभाचंद्राचार्यैः श्रीमत्पद्मनदिरत्ननंदिनौ स्वगुरू ख्यापितौ अतोनुमीयते यदयं महात्मा प्रभाचंद्रः प्राक् श्रीमदकलंकदेवचरणसान्निध्यमुपेत्य चाधीत्य विद्यां जग्राह श्रीमत्पद्मनंदिरत्ननंदिनोरासन्ने, आहती दीक्षां । ततः समजनिषातामेतन्महात्मनो दीक्षागुरू श्रीपद्मरत्ननंदिनौ अथवा पूर्वमकलंकदेवचरणसांनिध्ये विद्यामधीत्य पश्चादनयोः पार्थेऽध्यैष्टेत्यतोऽपि तयोरेतन्महात्मनोगुरुत्वमवगम्यते ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 182