Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 10
________________ ६ । कारकलनगरस्थभैरवाचार्यराजपरिषदि जैनमतगौरवं प्रदर्श्य तत्प्रभावं विअचूंभे श्रीविया नदिप्रभुः। । विदरीनगरनिवासिभावुकलोकेभ्यः श्रीमद्विद्यानंदिप्रभुणा स्वधर्मज्ञानप्राकर्येण सम्यकत्वा वाप्तिः कारिता। यस्य नरसिंहराजात्मजकृष्णराजस्य संसदि नमातिस्म नरपतिसहस्रकं तस्यां परिषदि हेविद्यानंदिप्रभो त्वया समुद्दीपितो जैनधर्मः पराभूताश्च मत्तपरवादिनः । . ९ कोप्पनाद्यनेकतीर्थक्षेत्रेषु कारयित्वा द्रव्यवैपुल्यव्ययं हे विद्यानंदिप्रभी त्वयार्हतधर्मः प्रभावितः। भूषितश्च श्रवणबेलगुलनगरस्थजैनसंघः कनकवसनादिप्रदापनतः । विधाय च गैरसप्पानगरासन्नमुनिसंदोह संघं स्वशिष्यमंडलं स विभूषितः । गौतमभद्रबाहुविशाखाचार्योमास्वामिसमंतभद्राकलंकादि विद्वान्सो विजयंता भुवि सामंतभद्रभाष्यमंगलाचरणदेवागमोपरि विरचितं भाष्यं श्रीमदकलंकदेवेन । समंजसतयाप्तमीमांसाग्रंथविबोधयित्रे श्रीमद्विद्यानंदिने नमः । श्लोकवार्तिकप्रणेता कविचूड़ामणिः तार्किकसिंहो विद्वान् यतिर्विद्यानंदी चिरंजीयाद्भुवि धरणीधरसन्निकृष्टोग्रतपस्वी ध्यानी मुनिः पात्रकेसर्येव समजनिष्ट नान्यः । ४६ तमः शिलालेखः । इतोऽधिकमिदमपि विमर्शणीयं यत् (यथा समयनिर्णीतौ सत्यां विज्ञाप्येत पुरस्तात् ) अकलंकवि. यानंदिस्वामिनी समकालीनावेव समजनिषातां ॥ श्रीमदकलंदेवकरविरचिताष्टसत्यभिधग्रंथस्योपरि भाष्यं च वरीवर्ति श्रीमद्विद्यानंदिविरचिताष्टसहस्रथाख्यं । यद्ययं महात्मा मागधएव भवेत् दाक्षिणात्यः कर्णाटिकोवा न स्यात् तदा नैवं सम्भाव्येत यदष्टशत्युपर्यचिरकालएवैतस्य महात्मनोष्टसहस्रथाख्यं भाष्यं स्यात् किं तु दाक्षिणात्यत्वे कार्णाटिकत्व एववैतस्य महात्मनस्तथाविधा संभावना । निश्चयेन त्विदमेवावसीयेत यदयं विद्यानंदी विभुःअकलंकदेवशिष्यकल्पसहचर एवाभूत्तत एवानेनाविलं बितकाल एव तथाविधमष्टशत्युपर्यष्टसहस्रथमिधं भाष्यं व्यरचि । विभुरयं विद्यानंदी प्रामागधः पश्चात् वादकंडूयनवशंवदात्मतया दक्षिणं कर्णाटकं वा देशं सनाथीकृतपान् इत्यपि बलवती संभावना भवितुमर्हत्यती मागधो नासीदयं प्रभुर्दाक्षिणात्यः कार्णाटिक एव वेत्यत्रापि न किमप्यनवचं गमकं । नात्रापि किमपि बलवत्तरं गमकं कथाकोशलेखमुज्झित्वा यदयं महात्मा मागधएवासीदिति । वस्तुतस्तु कथाकोशलेखोऽपि न प्रमाणपदमधिरोहति जनश्रुतिकुक्षिप्रविष्टत्वात्तल्लेखस्य । यतो येन ग्रंथका पात्रकेसरिकथा विलिखिता स समजनि शतसप्तकवर्षाणां पश्चात् श्रीविद्यानंदिप्रभोः, सा च कथा जैनधर्मप्रभावना लक्ष्यीकृत्यैव किंवदंत्या विलिखिता नेतिहासदृष्ट्या ( यदि भवेदितिहासदष्व्या कथं नोल्लिखितस्तेन श्रीविद्यानंदिसंवत्ससदिनिर्णयः) अतो श्रीमद्विद्यानंदिप्रभोर्मगधदेशस्थितिनिर्णये नेयं विलिखिता कथा प्रमाणपदमंचति ततोयं विद्यानंदी महात्मा मागधो दाक्षिणात्यः कार्णादिको वेति विषयः सर्वथा संशयापन्नऐवति ॥ समयविचारः। विभुरयं महात्मा विद्यानंदी कदा पावनात्मीयजीवनेन. भारतभूमि कामयांचके इति न निर्णिन्येयं महोदयः कतमेऽपि स्वकरकलितग्रथे । परंतु निश्चीयते कियद्भिः प्रमाणैर्यदयं प्रभुः ८ तमायाः स्त्रीष्टाब्देरतेः आदौ च ९ तमायाः शताब्देः समजनिष्ट । नानि चेमानि कियंति चित्प्रमाणानि । स्वकरविलसिताष्टसहस्याख्यग्रंथे श्रीमद्विद्यानंदिनभुणा भर्तृहरिरचितघाक्यपदीयग्रंथस्य पद्यमिदमुद्धृतं ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 182