Book Title: Aapt Pariksha Patra Pariksha Cha Author(s): Pannalal Jain Publisher: Sanatan Jain Granthmala View full book textPage 9
________________ "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं"। इत्यनवद्यपद्यम् । अपरस्मिन्नहनि विद्वान् स हि पात्रकेसरी प्रत्यूषसि संप्रत्यगाद्भगवत्पार्श्वजिनमंदिरे । पराववृते च तस्य महात्मनोऽगम्यसंशीतिभर्गवत्फणोपरिदृष्टिसंपाते श्रीमद्देवीशयकुशेशयखचितानवद्यपद्यं पठित्वा । निर्धारितं चैतत्तेन यदन्यथानुपपन्नत्वरूपव्याप्तिज्ञानमेवानवद्यानुमानं, रीत्या किलानया संप्रत्यभूत्तदीयं महती विश्वस्तिर्यत्, भगवन्नर्हन्नेवाप्तस्तल्लपनाविर्भूतधर्मएव लोकद्वयसुखावहो महान् धर्मः, तदनु श्रीपात्रकेसरिविदुषा स्वसहचारिणां पुरस्तादण्याहतधर्मप्रशंसा कृता उपदिष्टाश्च ते। तदुपदेशमश्रोतुकामा द्विषंतश्च शास्त्रार्थ मार्गेण पराभूता तथा च पर्यन्ते श्रीमत्पात्रकेसरिर्वदुष्यदिवाकरस्य पुरस्तादात्मीयवैदुष्यं दीपकल्पं विज्ञाय सहावनिपालभूपतिना सर्वे ते अनवद्यार्हतधर्मसेविनः संप्रतिपेदिरे । कथयानया परमिदमेवानुगम्यते विभुः श्रीविद्यानंदी मगधराज्यांतर्गताहिच्छत्रपुरनिवासी ब्राह्मणकुलोत्पन्नश्चासीत् जैनधर्मधार-- णात्प्रागय महात्मा नैयायिकमीमांसकादिवैदिकाद्यन्यतमधर्मानुयायीचाभूत् । संप्रत्यपि अहिच्छत्रस्थान अहिक्षितिपार्श्वनाथाभिधया भुवि वर्तते रामनगरोप्यस्यैवापराभिधा। स्थानमिदमुत्तरप्रांते बरेलीपत्तनासन्नेऽस्ति । श्रीपार्श्वजिनेंदायामलकेवलबोधावाप्तिरत्रैव समजनि । अकृत च कमठासुरोऽत्रैवानल्पोपसर्ग पार्श्वजिनोपरि । निववृते च छत्रीभूयधरणेन्द्रेण तत् अतोऽस्तीदं जैनानां पावनं क्षेत्रं । आमनंति च भक्ति विनतास्ते तत् । एतत्क्षेत्रस्थपार्श्वजिनालयतो समस्ति भुवि महती विश्रुतिः क्षेत्रस्यास्य । अभूदत्र कश्चिदवनिपालो भूपाल: () प्रत्यगात्तस्य राजधान्यात्मतां क्षेत्रमिदमितिनिर्णयाय न वरीवर्ति पार्श्वेऽस्माकं किमपि. बलवत्तरं गमक। विद्यानंदिनिवासस्थितिः। विभुर्विद्यानंदी उत्तरप्रांतमंडनएवासीदित्येवोद्बोध्यते कथयानया किं तु दक्षिणात्यकार्णाटिकग्रंथ कर्तृभिरेव तज्जीवनविषयकोल्लेखविशेषकरणात् दक्षिणकर्णाटकशिलालेखेष्वेव तदुल्लेखविशेषदर्शनाच्च निष्प्रत्यूह विज्ञायतेऽस्माभिर्यदयं विद्वान् दाक्षिणात्यः कार्णाटिक एव वासीत् । किं च यस्मिन् समये श्रीमानयं परजनहितप्रतिपादनतया दाक्षिणं कार्णाटिक वा भारतवर्षभागमलंचकार तदात्वे एव स हि भारतवर्षभागः शंकरभट्टमंडनमिश्रप्रभृतिवैदिकविदुषां जैनविदुषां चासीद्विवादालयं, श्रीमद्भट्टाकलंकप्रभाचंद्रजिनसेन माणिक्यनंद्यादिजैनाचार्या अपि तत्समकालीना एव समभूवन् स हि समयः प्रदेशश्च तथाविध एवासीत् यदत्र विद्यानंदिसदृशप्रखरविद्वद्भिरेव भक्तिव्यं । कर्णाटकदेशस्थशिमोगाप्रांतांतर्गतहुमचाग्रामप्राप्तशिलालेखे येषां येषां भूपतीना सभासु विभुर्विद्यानंदी प्रखर विद्वद्भिः शास्त्रार्थपथा विजयमवापेत्युल्लेखो वर्तते ते सर्वे भूपतयो दाक्षिणात्या कार्णाटिकाचा सन्निति प्रमाणेनापि दाक्षिणात्येन कार्णाटिकेनैव वा भाब्यं श्रीमद्विद्यानंदिनोयनवद्यं निश्चीयते । हुमचानगरप्राप्तशिलालेखाभिप्रायमिदं । १। नजराजपट्टणमहीपतिनंजपरिषदि श्रीमद्विद्यानंदिस्वामिना नंदनमल्लिभट्टाभिधोविदग्धो विहितानवद्यविवादमर्यादया विजिग्ये । २ । हृद्यानवद्यपद्यैकप्रभावेण श्रीशतवेंद्रनरपतिसभायां श्रीविद्यानंदिविभुना निखिलश्नोतारो विस्मयपदमानीताः । ३ शल्वमाल्लभूपतिसंसदि स्वीयामलवचनपाटवपराभूतवादिविदुषः क्षमतेस्म विद्यानंदिप्रभुः । ४ । सलूवदेवपृथ्वीपतिपरिषदि नैकविधपरवादिमंडललपनविनिर्गतसिद्धांतसंदोहं सिद्धांताभासतयाऽनृतीकृत्यार्हतमतं प्रभावितं । ५ । विलगीपत्तनमंडननरपतिनरसिंहसंसदि समुद्बोधितः किल प्रभावो जैनमतस्य श्रीमद्विपानंदिप्रभुणा।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 182