________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकप्रकरणम् २५ ] मिताक्षरासहिता ।
अन्यायगृहीतदण्डधनस्य गतिमाह - राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ ३०७ ॥
अन्यायेन यो दण्डो राज्ञा लोभाद्गृहीतस्तं त्रिंशद्गुणीकृतं वरुणायेदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद्गृहीतमन्यायेन तावत्तस्मै प्रतिदेयमितरथापहारदोषप्रसङ्गात् । अन्यायदण्डग्रहणे पूर्व स्वामिनः स्वत्वविच्छेदाभावाच्चेति ॥ ३०७ ॥
इति श्रीमत्पद्मनाभ भट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षराख्यायां याज्ञवल्कीयधर्मशास्त्रविवृतौ द्वितीयोsध्यायो व्यवहाराख्यः समाप्तिमगात् ॥
१. अन्यायेन तु यो दण्डो घ.
।
अथास्मिनध्याये प्रकरणानुक्रमणिका कथ्यते । आद्यं साधारणव्यवहारमातृकाप्रकरणम् १ । असाधारणव्यवहारमातृकाप्रकरणम् २ | ऋणादानम् ३ । उपनिधिप्रकरणम् ४ । साक्षिप्रकरणम् ५ । लेख्यप्रकरणम् ६ । दिव्यप्रकरणम् २७ । दायविभागः ८ । सीमाविवादः ९ । स्वामिपालविवादः १० | अस्वामिवि - क्रयः ११ । दत्ताप्रदानिकम् १२ । क्रीतानुशयः १३ | अभ्युपेत्याशुश्रूषा १४ | संविद्यतिक्रमः १५ | वेतनादानम् १६ । द्यूतसमाह्वयाख्यम् १७ । वाक्पारुष्यम् १८ | दण्डपारुष्यम् १९ । साहसम् २० । विक्रीया संप्रदानम् २१ । संभूयसमुत्थानम् २२ । स्तेयप्रकरणम् २३ । स्त्रीसंग्रहणम् २४ | प्रकीर्णकम् २५ । इति पञ्चविंशतिप्रकरणानि ॥
उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥
२९३
For Private And Personal Use Only